________________
विभाग-२, षड्दर्शननिर्णय:
३१९
मृगादीनामपि तद्भावात् । नाङ्गसंस्कारत्यागादिभिः वृषलाणामपि तद्दर्शनात् । न भिक्षाटननिरशनतादिभिः दुर्भिक्षादौ बहूनामपि तत्संभवात् । न 'आकिञ्चन्यादिभिः दुर्गतानामपि तद्घटनात् । तस्माद् रागद्वेषपरिहाररूपसमतास्वीकार एव यतित्वम् । उक्तं चवनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ।।
हितोपदेश, संधि ९०] तथा- रागद्वैषौ यदि स्यातां तपसा किं प्रयोजनम् ? । तावेव यदि न स्यातां तपसां किं प्रयोजनम् ? ।।
तथा बौद्ध-मीमांसक-साङ्ख्य-नैयायिक-वैशेषिक-जैनभेदेन षड्दर्शनानि । तत्र यद्यप्येतान्यात्म-पुण्यपापापवर्गादिसत्तावादितया सदर्शनानीति व्यवहारस्तथापि स्वस्वपक्षोत्कर्ष' परपक्षापकर्ष कदाग्रहनिग्रहाय किमप्युच्यते ।
इह बौद्धानां बुद्धो देवता, चत्वारि दुःखादीन्यार्यसत्यानि । तत्र विज्ञानादयः पञ्चस्कंधाः, द्वादशायतनानि च दुःखम् । रागादीनामुदयहेतुरात्मीयभावाख्यः समुदयः । सर्वं क्षणिकमिति वासना मार्गः । ज्ञानसन्तानोच्छेदो मोक्षः । निरोधो मोक्ष इत्यर्थः । प्रत्यक्षानुमाने द्वे प्रमाणे ।
एवं सति यदि बुद्धो देवताऽस्येति बौद्धत्वव्यपदेशस्तर्हि स बुद्धः संसारी वाऽसंसारी वा ? यदि संसारी तर्हि अस्मदादिवद् रागादिकलुषिततया न देवः । अथासंसारी तर्हि क्षणिकोऽक्षणिको वा ? क्षणिकश्चेन् नासंसारी । क्षणिकत्वादेव संतानोच्छेदाभावेन मोक्षाभावात् । अक्षणिकश्चेत् सन् वा असन् वा ? । संश्चेन् न, यत् सत् तत् क्षणिकमिति प्रतिज्ञाव्याघातात् । असंश्चेन प्रमाणम्, खरविषाणस्याप्यसतः प्रमाणत्वप्रसंगात् । तत एकान्तक्षणिकत्ववादिनां तेषां कथं बुद्धो देवतेति । किञ्च सर्वस्य क्षणिकत्वेऽभ्युपगम्यमाने मोक्षोपायप्रवृत्तिरपि न स्यात् । सर्वेषामपि ज्ञानक्षणानां निरन्वयनाशेन मोक्षफलोपभोगाभावात् । अथ ज्ञानसंतानोच्छेदस्यैव मोक्षत्वाभ्युपगमे मा भूत् कस्यापि १. अपरिग्रह २. महत्त्वारापोण ३ अवर्णवाद ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org