________________
विभाग- २, षड्दर्शननिर्णयः
चेष्टते । 'नैनं छिन्दन्ति शस्त्राणि इति [ भगवद्गीता २.२३] वचनाज्जीवस्य खंडत्वायोगात् । नापि निजांशान्नानारूपतया व्यापार्य विचित्रं चेष्टते इति वाच्यम् । यतस्तेंशास्ततो भिन्ना वाऽभिन्ना वा स्युः । भिन्नाश्चेत् खण्डतादोषः । अभिन्नाश्चेदेकस्मिन् सुखिनि दुःखिनि वा सर्वेऽपि सुखिनो दुःखिनो वा स्युः । तस्मान्निरञ्जनः सृष्टिसंहारानधिकारी सर्वज्ञः परमपदस्थः शिव इति । उक्तं चस्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ।।
३२४
ऊर्मिषट्काऽतिगं' रूपं तदाहुर्मनीषिणः । संसारबन्धानाधीनक्लेशदुःखाद्यदूषितम् ।। इत्यादि
अन्यत्राप्युक्तम्
[ न्यायमञ्जरीनवमाह्निके ]
न स्वर्धुनी न फणिनो न कपालदाम नेन्दोः
कला न गिरिजा न जटा न भस्म ।
यत्रास्ति किञ्चिदपि नान्यदुपास्महे तद्-रूपं पुराण' - मुनि - शीलित - मीश्वरस्य ।।
वैशेषिकाणामपि देवः शिव एव । द्रव्य-गुण-कर्म-सामान्य- विशेष - समवायाः षट् पदार्थाः । प्रत्यक्षानुमाने द्वे प्रमाणे । नवानां बुद्धि- सुख - दुखेच्छाद्वेष-प्रयत्न-धर्माधर्म-संस्काररूपविशेषगुणा-नामत्यन्तोच्छेदे मोक्ष इति । ते चैवं पर्यनुयोज्याः ४ । ननु आगमाः प्रमाणमप्रमाणं वा । यद्यप्रमाणं कथं तर्हि आगमबलेन षट्पदार्थादिप्ररूपणा प्रमाणीक्रियते । अथ प्रमाणं तथा कथं द्वे एव प्रमाणे ? । तस्मादागमार्थापत्त्यादीन्यपि प्रमाणानि मन्तव्यानि । अन्यथा सर्वव्यवहारलोपात् । किञ्च विशेषगुणोच्छेदे मोक्षस्तदा मुक्तजीवस्य सर्वज्ञानसुखयोरभावादाकाशाद्यजीवैः सह मनागपि नो भेदः । अतस्तत्त्वदानादिना मोक्षमवाप्य भवन्मते जीवैरजीवैर्भाव्यं [इति] लाभमिच्छतो मूलक्षतिः । अन्यच्च । यथाऽभ्रच्छि (च्छ) न्नादित्यस्य शनैः शनैरभ्रापगमे प्रकाशः स्पष्टस्पष्टतरो भवन् सर्वाभ्रापगमे सर्वथा स्पष्ट एव स्यादेवं कर्माच्छादितस्य जीवस्य शनैः १. अतिक्रान्तं । २. जीर्ण । ३. सेवित । ४. पृच्छयाः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org