________________
३१६
विभाग-२, श्रीराजशेखरीय षड्दर्शनसमुच्चयः
सर्वसावद्यविरतिधर्म: सिद्ध्यै निवर्त्तकः । इष्टापूर्तादिको धर्मो, भवेद् भूत्यै प्रवर्तकः ।।१५७।।
नास्तिकमत] धर्माधर्मविधातारं, जीवं दर्शनिनो विदुः । नास्तिकास्तं न मन्यन्ते, पुण्यापुण्यबहिर्मुखाः ।।१५८ ।। तेऽधिपर्षद् वदन्त्येवं, नास्ति जीवो न कर्म च । धर्माधर्मों न विद्यते, ततः किं नु तयोः फलम् ? ।।१५९।। एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ।।१६०।। पिब खाद च चारुलोचने ! यदतीतं वरगात्रि ! तन ते । न हि भीरु ! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम् ।।१६१।। पृथ्वी जलं तथा तेजो, वायुर्भूतचतुष्टयम् । प्रमाणभूतिरेतेषां, मानं त्वक्षजमेव हि ।।१६२।। पृथ्व्यादिभूतसंहत्यां, तथा देहादिसङ्गतिः । मदशक्तिः सुराङ्गेभ्यो, यद्वत् तद्वञ्चिदात्मता ।।१६३।। तस्माद् दृष्टपरित्यागाद्, यददृष्टे प्रवर्त्तनम् । तद्धि लोकस्य मूढत्वं, चार्वाका: प्रतिपेदिरे ।।१६४ ।। क्रमेण खण्डनं तेषां, जीवस्तावत्प्रपद्यताम् । अहं दुःखी सुखी चाहमिति प्रत्यययोगतः ।।१६५ ।। घटं वेम्यहमित्यत्र, त्रितयं प्रतिभासते । कर्म क्रिया च कर्ता च, तत्कर्ता किं निषिध्यते ? ।।१६६।। शरीरमेव चेत्कर्तृ, न कर्तृ तदचेतनम् । भूतचैतन्ययोगाञ्च, चेतनं तदसङ्गतम् ।।१६७।। मया दृष्टं श्रुतं स्पृष्टं, घ्रातमास्वादितं स्मृतम् । इत्येककर्तृका भावा, भूतचिद्वादिनः कथम् ? ।।१६८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org