________________
विभाग-२, श्रीराजशेखरीय षड्दर्शनसमुच्चयः
३१७
स्वसंवेदनत: सिद्धे, स्वदेहे चेतनात्मनि । परदेहेऽपि तत्सिद्धिरनुमानेन साध्यते ।।१६९।। बुद्धिपूर्वा क्रिया दृष्टा, स्वदेहेऽन्यत्र तद्गतिः । प्रमाणबलतः सिद्धा, चेतना नातिवार्यते ।।१७०।। तत्परलोकिनः सिद्धौ, कर्मबन्धो न दुर्घटः । विचित्राध्यवसायस्थः, स हि बनात्यनादितः ।।१७१।। पुण्यपापमयं कर्म, चीयते वाऽपचीयते । तद्वशात् सुखदुःखानि, न तु यादृच्छिकान्यहो ! ।।१७२।। नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां, कादाचित्कत्वसम्भवः ।।१७३।। स्तन्यपानाभिलाषो यत्, प्रथमं बालके भवेत् । पूर्वजन्माभ्यासतोऽसौ, तस्मिन् जन्मन्यशिक्षणात् ।।१७४।। तस्मानास्तिकवाक्येषु, रतिः कर्तुं न युज्यते । आत्मा ज्ञानी कर्ममुक्तः, परलोकी च बुध्यताम् ।।१७५।। स चाष्टाङ्गेन योगेन कर्मोन्मूल्य समन्ततः । आप्नोति मुक्तिं तत्रोचैरानन्दं स्वादयत्यहो ! ।।१७६।। सादिकमनन्तमनुपममव्याबाधं स्वभावजं सौख्यम् । प्राप्तः स केवलज्ञानदर्शनो मोदते मुक्तः ।।१७७।। सर्वथाऽप्यजिघांसूनां, गुरुदेवहितैषिणाम् । अदीर्घमत्सराणां च, मुक्तिरासन्नवर्तिनी ।।१७८ ।। कालस्वभावनियतिचेतनेतरकर्मणाम् । भवितव्यतया पाके, मुक्तिर्भवति नान्यथा ।।१७९।। बालावबोधनकृते मलधारिसूरिः, श्रीराजशेखर इति प्रथमानबुद्धिः । सम्यग्गुरोरधिगतोत्तमतर्कशास्त्रः, षड्दर्शनीमिति मनाक् कथयाम्बभूव ।।१८०।।
।। इति श्रीराजशेखरसूरिकृतः षड्दर्शनसमुच्चयः ।।
Jain Education International
तः षडदशन For Personar&Private Dse only
www.jainelibrary.org