________________
विभाग-२, श्रीराजशेखरीय षड्दर्शनसमुच्चयः
२१५
योगाचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः स्वच्छां परां संविदम् ।।१४५।। तर्कभाषा हेतुबिन्दुायबिन्दुस्तथाऽर्चटः । तर्कः कमलशैलश्च, तथा न्यायप्रवेशकः ।।१४६।। ज्ञानपारमिताद्यास्तु, ग्रन्थाः स्युर्दश तन्मते । प्रासादा वर्तुलास्तेषां, बुद्धाण्डक इति स्मृताः ।।१४७ ।। मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराणे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ।।१४८।। उक्ता लिङ्गादयो भेदा, दर्शनानां शिवैषिणाम् । तद्विस्तरस्तु न प्रोक्तो, यथाज्ञानमुदीरितः ।।१४९।।
[अष्टाङ्गयोगस्वरुप अष्टाङ्गयोगसिद्ध्यर्थं, दध्युलिङ्गानि लिङ्गिनः । सर्वे प्राहुस्तमष्टाङ्गं, तत्स्वरूपं वदाम्यथ ।।१५०।।. अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमाः । नियमाः शौचसन्तोषौ, स्वाध्यायतपसी अपि ।।१५१।। देवताप्रणिधानं च, करणं पुनरासनम् । प्राणायामः प्राणयमः, श्वासप्रश्वासरोधनम् ।।१५२।। प्रत्याहारस्त्विन्द्रियाणां, विषयेभ्य: समाहतिः । धारणा तु क्वचिद् ध्येये, चित्तस्य स्थिरबन्धनम् ।।१५३। ध्यानं तु विषये तस्मिन्नेकप्रत्ययसंततिः । समाधिस्तु तदेवार्थमात्राभासनरूपकम् ।।१५४।। एवं योगो यमाद्यङ्गैरष्टभिः संमतोऽष्टधा । मोक्षोपायो योगो ज्ञानश्रद्धानचरणात्मकः ।।१५५।। निवर्त्तको भवेद् धर्मो, दर्शनानां शिवैषिणाम् । राज्यादिभोगमिच्छूनां, गृहिणां तु प्रवर्तकः ।।१५६।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org