________________
३१४
विभाग-२, श्रीराजशेखरीय षड्दर्शनसमुच्चयः
धर्मबुद्धसङ्घरूपं, तेषां रत्नत्रयं मतम् । तारादेवी पुनस्तेषां, सर्वविघ्नोपघातिनी ।।१३३।। सप्त तीर्थङ्करास्तेषां, कण्ठे रेखात्रयाङ्किताः । विपश्यी १ शिखी २ विश्वभूः ३, क्रकुच्छन्दश्च ४ काञ्चनः ५ ।।१३४।। काश्यपश्च ६ सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ७ । तथा राहलसूः सर्वार्थसिद्धो गौतमान्वयः ।।१३५।। मायाशुद्धोदनसुतो, देवदत्ताग्रजश्च सः । शौद्धोदनिधर्मकीर्तिप्रमुखा गुरवो मताः ।।१३६।। प्रत्यक्षमनुमानं च, द्वे प्रमाणे तु तन्मते । चतुर्णामार्यसत्यानां, दुःखादीनां प्ररूपकः ।।१३७।। सर्वज्ञस्तन्मते बुद्धः, स प्रमेयचतुष्कवाक् । दुःखं समुदयो मार्गो, निरोधश्चेति तात्त्विकम् ।।१३८ ।। दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना संज्ञा, संस्कारो रूपमेव च ।।१३९।। समुदेति यतो लोके, रागादीनां गणोऽखिलः । आत्माऽऽत्मीयस्वभावाख्यः, समुदयः स उदाहतः ।।१४०।। क्षणिकाः सर्वसंस्कारा, इत्येवं वासना तु या । स मार्ग इह विज्ञेयो, निरोधो मोक्ष उच्यते ।।१४१।। सुगताचारलग्नस्य, ज्ञाननिर्मलता हि या । असा मुक्तिर्मन्यते बौद्धैः, कैश्चित् कैश्चिञ्चिते: क्षयः ।।१४२।। आत्मानं मन्वते नैते, ज्ञानमेव तु मन्वते । भवान्तरे सहचरं, संतानस्थं क्षणक्षयि ।।१४३।। चत्वारो बौद्धभेदाः स्युभक्तिस्तेषां पृथक् पृथक् । काव्यादमुष्माद् ज्ञातव्यास्तन्मतप्रतिपादकात् ।।१४४।। अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणेष्यते, प्रत्यक्षेण(क्षो न) हि बाह्यवस्तुविसर: सौत्रान्तिकैरादृतः ।
Jain Education Intemational
POr Personal & PrivateUse Only
www.jainelibrary.org