________________
विभाग-२, श्रीराजशेखरीय षड्दर्शनसमुच्चयः
३१३
तत्र परं सत्ताख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिष्टः ।।१२१।। य इहायुतसिद्धानामाधाराधेयभूतभावानाम् । संबन्ध इहप्रत्ययहेतुः स च भवति समवायः ।।१२२।। योगे वैशेषिके तन्त्रे, प्रायः साधारणी क्रिया । आचार्यः शङ्कर इति, नाम प्रागभिधापरम् ।।१२३।। अमीषां तर्कशास्त्राणि, षट् सहस्राणि कन्दली । श्रीधराचार्यरचिता, प्रशस्तकरभाष्यकम् ।।१२४ ।। तत्र सप्तशतीमानं, सूत्रं तु त्रिशतीमितम् । व्योमशिवाचार्यकृता, टीका व्योममतिर्मता ।।१२५ ।। सा स्यानव सहस्राणि, परा तु किरणावली । सा तूदयनसंदृब्धा, उद्देशात् षट्सहस्रिका ।।१२६ ।। श्रीवत्साचार्यरचिता, टीका लीलावती मता । साऽपि स्यात् षट् सहस्राणि, एकं त्वात्रेयतन्त्रकम् ।।१२७ ।। तत्तु संप्रति व्युच्छिन्नं, शिष्या मन्दोद्यमा यतः । आचारव्यवहारौ च, प्रायश्चित्तं ते विदुः ।।१२८ ।। जीवस्यात्यन्तिको दुःखवियोगो मोक्ष इष्यते । यौगानां च तथैवोक्तः, प्राय: साधर्मिका यतः ।।१२९ ।। शिवेनोलूकरूपेण, कणादस्य मुनेः पुरः । मतमेतत् प्रकथितं, तत औलूक्यमुच्यते ।।१३०।। अक्षपादेन ऋषिणा, रचितत्वात्तु यौगिकम् । आक्षपादमिति ख्यातं, प्रायस्तुल्यं मतद्वयम् ।।१३१।।
[बौद्धमत अथ बौद्धमतं वक्ष्ये, मौण्ड्यं कृत्तिः कमण्डलुः ।। लिङ्गं तेषां रक्तवस्त्रं, वेषः शौचक्रिया बहुः ।।१३२।।
Jain Education International
www.jainelibrary.org