________________
३१२
विभाग- २, श्रीराजशेखरीय षड्दर्शनसमुच्चयः
श्रुतानुसारतः प्रोक्तं, नैयायिकमतं मया ।
एतेषामेव शास्त्रेभ्यस्तांस्तान् भावान् विदुर्बुधाः । । १०९ ।।
एतेषां यजमानस्तु, सुताराहृदयेश्वरः । सत्यवादी हरिश्चन्द्रो, रामलक्ष्मणपूर्वजः । ।११० ।।
भरटानां व्रतादाने, वर्णव्यक्तिर्न काचन । यस्य पुनः शिवे भक्तिर्व्रती स भरटो भवेत् । । १११ । ।
अमीषां सर्वतीर्थेषु, भरटा एव पूजकाः ।
शेषा नमस्कारकराः, सोऽपि कार्यो न सन्मुखः । । ११२ ।। [वैशेषिकमत ]
अथ वैशेषिकं ब्रूमः, पाशुपतान्यनामकम् । लिङ्गादि योगवत्तेषां ते ते तीर्थकरा अपि । ।११३ ।। वैशेषिकाणां योगेभ्यो, मानतत्त्वगता भिदा । प्रत्यक्षमनुमानं च, मते तेषां प्रमाद्वयम् ।।११४ ।।
अवशेषप्रमाणानामन्तर्भावोऽत्र तैर्मतः । तत्त्वानि तु षडेवात्र, द्रव्यप्रभृतिकान्यहो ! । । ११५ । । द्रव्यं गुणास्तथा कर्म, सामान्यं च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्कं हि तन्मते । । ११६ । । तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि च गुणः पुनः पञ्चविंशतिधा । । ११७ ।। स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभाग-संयोगौ । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च । । ११८ । । बुद्धिः सुखदुःखमिच्छाधर्माधर्मप्रयत्नसंस्काराः । द्वेषः स्नेहगुरुत्वे द्रवत्ववेगौ गुणा एते । । ११९ । । उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् ।
पञ्चविधं कर्मेतत् परापरे द्वे तु सामान्ये । ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org