SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ विभाग-२, श्रीराजशेखरीय षड्दर्शनसमुच्चयः ३०९ कुटीचरो मठावासी, यजमानपरिग्रही । बहूदको नदीतीरे, स्नातो नैरस्यभेक्ष्यभुक् ।।७४ ।। हंसो भ्रमति देशेषु, तप:शोषितविग्रहः । यः स्यात्परमहंसस्तु, तस्याचारं वदाम्यहम् ।।७५।। स ईशानीं दिशं गच्छन्, यत्र निष्ठितशक्तिकः । तत्रानशनमादत्ते, वेदान्तध्यानतत्परः ।।७६।। परः पर इहोत्कृष्टो, याज्यास्तेषां तु वाडवाः । सावयवत्प्रकृतेर्भेदाद्, मोक्षो जीवस्य तन्मते ।।७७।। (गार्गीयस्मृति-मध्यगा: श्लोकाः) "त्रिदण्डी सशिखो यस्तु, ब्रह्मसूत्री गृहच्युतः । सकृत् पुत्रगृहेऽश्नाति, यो याति स कुटीचरः ।।७८।। कुटीचरस्य रूपेण, ब्रह्मभिक्षो जिताशनः । बहूदकः स विज्ञेयो, विष्णुजापपरायणः ।।७९।। ब्रह्मसूत्रशिखाहीनः, कषायाम्बरदण्डभृत् । एकरात्रिं वसेद्ग्रामे, नगरे च त्रिरात्रिकम् ।।८।। विप्राणामावसथेषु, विधूमेषु गताग्निषु । ब्रह्मभिक्षां चरेद्धंसः, कुटिकावासमाचरेत् ।।८१।। हंसस्य जायते ज्ञानं, तदा स्यात्परमो हि सः । चातुर्वर्ण्यप्रभोक्ता च, स्वेच्छया दण्डभृत्तदा ।।२।। प्रपञ्चमिथ्या कठवल्लिका च, ख्यातं जने भागवतं पुराणम् । इत्यादिशास्त्राणि बहूनि तेषां, तत्सम्प्रदायस्तु कृशोऽत्रलोके ।।८३।। [नैयायिकमत अथ योगमतं ब्रूमः, शैवमित्यपराभिधम् । ते दण्डधारिणः प्रौढकौपीनपरिधायिनः ।।८४।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy