SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३१० विभाग-२, श्रीराजशेखरीय षड्दर्शनसमुच्चयः ते कम्बलिप्रावरणा, जटापटलशालिनः । भस्मोद्धूलनकर्त्तारो, नीरसाहारसेविनः ।।५।। दोर्मूले तुम्बकभृतः, प्रायेण वनवासिनः । आतिथ्यकर्मनिरताः, कन्दमूलफलाशनाः ।।८६।। सस्त्रीका अथ नि:स्त्रीका, निःस्त्रीकास्तेषु चोत्तमाः । पञ्चाग्निसाधनपराः, प्राणलिङ्गधराः करे ।।८७।। विधाय दन्तपवनं, प्रक्षाल्यांहिकराननम् । . स्पृशन्ति भस्मनाऽङ्गं त्रिस्त्रिः शिवध्यानतत्पराः ।।८८।। यजमानो वन्दमानो, वक्ति तेषां कृताञ्जलिः । ॐ नमः शिवायेत्येवं, शिवाय नम इत्यसौ ।।८९।। तेषां च शङ्करो देवः, सृष्टिसंहारकारकः । तस्यावताराः सारा ये, तेऽष्टादश तदर्चिताः ।।१०।। तेषां नामान्यथ ब्रूमो, नकुलीशोऽथ कौशिकः । गार्यो मैत्र्यः कौरुषश्च, ईशानः षष्ठ उच्यते ।।९१।। सप्तमः पारगार्यस्तु, कपिलाण्डमनुष्यको । अपरकुशीकोऽत्रिश्च, पिङ्गलाक्षोऽथ पुष्पकः ।।१२।। बृहदाचार्योऽगस्तिश्च, सन्तानः षोडशः स्मृतः । राशीकरः सप्तदशो, विद्यागुरुरथापरः ।।१३।। एतेऽष्टादश तीर्थेशास्तैः सेव्यन्ते पदे पदे । पूजनं प्रणिधानं च, तेषां ज्ञेयं तदागमात् ।।१४।। अक्षपादो गुरुस्तेषां, तेन ते ह्याक्षपादकाः । उत्तमां संयमावस्था, प्राप्ता नग्ना भ्रमन्ति ते ।।१५।। प्रमाणानि च चत्वारि, प्रत्यक्षं लैङ्गिक तथा । उपमानं च शाब्दं च, तत्फलानि पृथक् पृथक् ।।९६।। तत्त्वानि षोडशामुत्र, प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च, संशयश्च प्रयोजनम् ।।९७ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy