SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३०८ विभाग- २, श्रीराजशेखरीय षड्दर्शनसमुच्चयः मीमांसको द्विधा कर्मब्रह्ममीमांसकस्तथा । वेदान्ती मन्यते ब्रह्म, कर्म भट्टप्रभाकरौ । । ६१ ।। ते धातुरक्तवसना, मृगचर्मोपवेशिका: । कमण्डलुधरा मुण्डा, भाट्टाः प्राभाकराश्च ते ।। ६२ ।। वेदान्तध्यानमेवैकमाचारस्तेरुरीकृतः । तेषां मते नास्ति देवः सर्वज्ञादिविशेषणः ।। ६३ ।। तस्मादतीन्द्रियार्थानां, साक्षाद्दष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिर्णयः । । ६४ ।। अत एव पुरा कार्यो, वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा, कर्तव्या धर्मसाधनी । । ६५ ।। नोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति । प्रवर्त्तकं वचः प्राहुः, स्वः कामोऽग्निं यथा यजेत् ।। ६६ ।। वेद एव गुरुस्तेषां वक्ता कश्चित्परो न हि । ततः स्वयं ते संन्यस्तं, संन्यस्तमिति भाषिणः । । ६७ ।। यज्ञोपवीतं प्रक्षाल्य, पिबन्ति तज्जलं शुचि । एते साङ्ख्यानुगा वेषात्, तत्त्वेऽतिमहती भिदा ।। ६८ ।। षट्प्रमाणस्पृशो भाट्टास्तन्नामानि प्रचक्ष्महे । प्रत्यक्षमनुमानं च, शाब्दं चोपमया सह । । ६९ ।। अर्थापत्तिरभावश्च, भाट्टानां षट् प्रमाः स्मृताः । प्रभाकरमते पञ्च, ते ह्यभावं न मन्वते । । ७० ।। एकमेवाद्वितीयं स्याद्, ब्रह्म तत्त्वं महाफलम् । प्रपञ्चः स्तम्भकुम्भादिस्तेषां शास्त्रे निरर्थकः । । ७१ । । मीमांसको द्विजन्मैवेत्यतः शूद्रान्नवर्जकः । न पौरुषकृता वेदाः, पारम्पर्येण तद्ग्रहात् ।। ७२ ।। मीमांसकानां चत्वारो, भेदास्तेषु कुटीचर: । बहूदकश्च हंसश्च तथा परमहंसकः ।। ७३ । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy