________________
विभाग-२, श्रीराजशेखरीय षड्दर्शनसमुच्चयः
३०७
पायूपस्थवच:पाणिपादाख्यानि मनस्तथा । अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडशः ।।४९।। रूपात्तेजो रसादापो, गन्धाद् भूमिः स्वरात्रभः । स्पर्शाद्वायुस्तथा चैवं, पञ्चभ्यः पञ्चभूतकम् ।।५०।। एवं चतुर्विंशतितत्त्वरूपं, निवेदितं सावयमते प्रधानम् । अन्यस्त्वकर्ता विगुणश्च भोक्ता, तत्त्वं पुमान् नित्यचिदभ्युपेतः ।।५१।। अमूर्त्तश्चेतनो भोगी, नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म, आत्मा कापिलदर्शने ।।५२।। प्रकृतेविरहो मोक्षस्तन्नाशे स स्वरूपगः । बध्यते मुच्यते चैव, प्रकृतिः पुरुषो न तु ।।५३।। साडयानां मतवक्तारः, कपिलासुरिभार्गवाः । उलूकः पञ्चशिखश्चेश्वरकृष्णस्तु शास्त्रकृत् ।।५४।। तर्कग्रन्था एतदीया, माठरस्तत्त्वकौमुदी । गौडपादाऽऽत्रेयतन्त्रे, साडयसप्ततिसूत्रयुक् ।।५५।। काश्यां प्राचुर्यमेतेषां, बहवो मासोपवासिकाः । धूम्रमार्गानुगा विप्रा, अर्चिागानुगास्त्वमी ।।५६।। वेदप्रियास्ततो विप्रा, यज्ञमार्गानुगामिनः । हिंसादिवेदविरता: साङ्ख्या अध्यात्मवादिनः ।।५७।। स्वकीयस्य मतस्यैते, महिमानं प्रचक्षते । यदि साङ्ख्यमते भक्तिस्तदा मुक्तिविना क्रियाम् ।।५८।। उक्तं च मठारप्रान्ते - हस पिब लल खाद मोद नित्यं, भुव च भोगान् यथाऽभिलाषम् । यदि विदितं ते कपिलमतं तत्, प्राप्स्यसि मोक्षसौख्यमचिरेण ।।५९।। इति साङ्ख्यमतम् ।।
[मीमांसकमत-जैमिनीयमत अथ मीमांसकं ब्रूमो, जैमिनीयापराभिधम् । जैमिनीया एकदण्डास्त्रिदण्डा अपि सावयवत् ।।६०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org