________________
३०६
विभाग-२, श्रीराजशेखरीय षड्दर्शनसमुच्चयः
दयार्थं जलजीवानां, गलनं धारयन्ति ते । शास्त्रेषूपदिशन्त्येवं, भक्तानां पुरतः सदा ।।३७।। षट्त्रिंशदङ्गुलायाम, विंशत्यङ्गुलविस्तृतम् । दृढं गलनकं कुर्याद्, भूयो जीवान् विशोधयेत् ।।३८।। म्रियन्ते मिष्टतोयेन, पूतराः क्षारसम्भवाः । क्षारतोयेन तु परे, न कुर्यात् सङ्करं ततः ।।३९।। लूताऽऽस्यतन्तुगलितैकबिन्दौ सन्ति जन्तवः । सूक्ष्मा भ्रमरमानास्ते, नैव मान्ति त्रिविष्टपे ।।४०।। कुसुम्भकुङ्कमाम्भोवनिचितं सूक्ष्मजन्तुभिः । न दृढेनापि वस्त्रेण, शक्यं शोधयितुं जलम् ।।४१।।
(उत्तरमीमांसायां गलनकविचारोऽयम्) । साङ्ख्या निरीश्वराः केचित्, केचिदीश्वरदेवताः । ये ते निरीश्वरास्तेऽमी, नारायणपरायणाः ।।४२।। विष्णोः प्रतिष्ठां कुर्वन्ति, साङ्ख्यशासनसूरयः । चैतन्यप्रमुखैः शब्दस्तेषामाचार्य उच्यते ।।४३।। प्रत्यक्षमनुमानं च, शाब्दं चेति प्रमात्रयम् । अन्तर्भावोऽत्र शेषाणां, प्रमाणानां सयुक्तिकः ।।४४।। अमीषां साङ्ख्यसूरीणां, तत्त्वानां पञ्चविंशतिः । सत्त्वं रजस्तमश्चेति, ज्ञेयं तावद् गुणत्रयम् ।।४५।। एतेषां या समाऽवस्था, सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां, वाच्या नित्यस्वरूपिका ।।४६।। ततः संजायते बुद्धिर्महानिति यकोच्यते । अहङ्कारस्ततोऽपि स्यात्, ततः षोडशको गणः ।।४७।। स्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रं च पञ्चमम् । पञ्च बुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ।।४८।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org