________________
विभाग-२, श्रीराजशेखरीय षड्दर्शनसमुच्चयः
३०५
शेषास्त्रयश्च गोप्याश्च, केवलिभुक्तिं न मन्वते । नास्ति चीवरयुक्तस्य, निर्वाणं सव्रतेऽपि हि ।।२५।। द्वात्रिंशदन्तरायाः स्युर्मलाश्चैव चतुर्दश । भिक्षाऽटने भवन्त्येषां, वर्जनीयास्तदागमे ।।२६।। शेषं श्वेताम्बरैस्तुल्यमाचारे दैवते गुरौ । श्वेताम्बरप्रणीतानि, तर्कशास्त्राणि मन्वते ।।२७।। स्याद्वादविद्याविद्योतात्, प्राय: साधर्मिका अमी । परमष्टसहस्री या, न्यायकैरवचन्द्रमाः ।।२८।। सिद्धान्तसार इत्याद्यास्ताः परमकर्कशाः । तेषां जयश्रीदानाय, प्रगल्भन्ते पदे पदे ।।२९।। जिनकल्पादयो भेदा, व्युच्छिन्नाः साम्प्रतं कलौ । वर्त्तमानं ततः प्रोक्तं, सर्वं ज्ञेयं जिनागमात् ।।३०।। सम्यग् जैनं मतं ज्ञात्वा, योगेऽष्टाङ्गे रमेत यः । स कर्मलाघवं कृत्वा, लब्धा सौख्यपरम्पराम् ।।३१।। इति जैनमतम् ।। ___
[साङ्ख्यमत] अथ साङ्ख्यमतं ब्रूमस्ते त्रिदण्डैकदण्डकाः । कौपीनं वसनं तेषां, धातुरक्ताम्बराश्च ते ।।३२।। क्षुरमुण्डा एणचर्मासना द्विजगृहाशनाः । पञ्चग्रासीपराश्चैव, द्वादशाक्षरजापिनः ।।३३।।
ॐ नमो नारायणाय, तद्भक्ताः प्रवदन्त्यदः । प्रणामकाले तेऽप्याहुः, पदं तत्तु नमोऽन्तकम् ।।३४।। बीटेति भारते ख्याता, दारवी मुखवस्त्रिका । दयानिमित्तं भूतानां, मुखनिःश्वासरोधिका ।।३५ ।। यदाहुस्ते-घ्राणादनुप्रयातेन, श्वासेनैकेन जन्तवः । हन्यन्ते शतशो ब्रह्मनणुमात्राक्षरवादिना ।।३६।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org