________________
३०४
विभाग- २, श्रीराजशेखरीय षड्दर्शनसमुच्चयः
जीवाजीव तथा पुण्यं, पापमाश्रवसंवरौ । बन्धो विनिर्जरामोक्षौ, नवतत्त्वी मताऽर्हताम् ।। १२ ।। चैतन्यलक्षणो जीवः, स्यादजीवस्ततोऽन्यथा । सत्कर्मपुद्गलाः पुण्यं, पापं दुष्कर्मपुद्गलाः ।। १३ । कषाया विषया योगा, इत्याद्या आश्रवा मताः । आश्रवाद्विरमणं यत्, तत् संवर इति स्मृतः ।।१४।। शुभाशुभानां ग्रहणं, कर्मणां बन्ध इष्यते । पूर्वोपार्जितकर्णौघजरणं निर्जरा स्मृता ।। १५ ।। कर्मक्षयेण जीवस्य, स्वस्वरूपस्थितिः शिवम् | एषां नवानां श्रद्धाने, चारित्रात् तत्तु लभ्यते । । १६ ।। श्वेताम्बरा वन्द्यमाना, धर्मलाभं प्रचक्षते । शुद्धां माधुकरीं वृत्तिं, सेवन्ते भोजनादिषु । । १७ ।। ख्याताः प्रमाणमीमांसा, प्रमाणोक्तिसमुचयः । नयचक्रवालतर्कः स्याद्वादकलिका तथा । । १८ ।। प्रमेयपद्ममार्तण्डस्तत्त्वार्थः सर्वसाधनः । धर्मसंग्रहणीत्यादि, तर्कोंघा जिनशासने । ।१९।। जैने मते उभौ पक्षी, श्वेताम्बरो दिगम्बरः । श्वेताम्बरः पुरा प्रोक्तः, कथ्यतेऽथ दिगम्बरः ।। २० ।। दिगम्बराणां चत्वारो, भेदा नाग्न्यव्रतस्पृशः । काष्ठासङ्गो मूलसङ्गः, सङ्गी माथुरगोप्यको ।। २१ । । पिच्छिका चमरीवालैः काष्ठासङ्गे प्रतिष्ठिता । मूलसङ्गे मयुराणां, पिच्छेर्भवति पिच्छिका ।। २२ ।। पिच्छिका माथुरे सङ्घे, मूलादपि हि नादृता । मयूरपिच्छिका गोप्याः, धर्मलाभं भणन्ति ते ।। २३ ।।
धर्मवृद्धिगिरः शेषाः, गोप्याः स्त्रीमुक्तिभाषिणः ।
गोप्यादन्ये त्रयः सङ्घाः, प्राहुन निर्वृतिं स्त्रियाः ।।२४।।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org