________________
विभाग-२, श्रीराजशेखरीय षड्दर्शनसमुच्चयः
३०३
(४) मलधारिश्रीराजशेखरसूरिविरचितः षड्दर्शनसमुञ्चयः ।।
।।ऐं नमः ॥ नत्वा निजगुरून् भक्तया, स्मृत्वा वाङ्मयदेवताम् । सर्वदर्शनवक्तव्यं, वक्ति श्री राजशेखरः ।।१।। धर्मः प्रियः सर्वलोके, तं ब्रूयुर्दर्शनानि षट् । तेषां लिङ्गे च वेषे च, आचारे दैवते गुरौ ।।२।। प्रमाणतत्त्वयोर्मुक्ती, तर्के भेदो निरीक्ष्यते । मुक्तिरष्टाङ्गयोगेनेत्येतत् साधारणं वचः ।।३।। जैनं सायं जैमिनीयं, यौगं वैशेषिकं तथा । सौगतं दर्शनान्येवं, नास्तिकं तु न दर्शनम् ।।४।।
[जैनमत तत्र जैनमते लिङ्गं, रजोहरणमादिमम् । मुखवस्त्रं च वेषश्च, चोलपट्टादिकः स्मृतः ।।५।। विस्तारस्त्वोघनिर्युक्ते यो वेषादिगोचरः । आचारः पञ्चसमितिगुप्तित्रितयलक्षणः ।।६।। ईर्याभाषैणाऽऽदाननिक्षेपोत्सर्गसंज्ञकाः । पञ्चाहुः समितीस्तिस्रो, गुप्तीस्त्रियोगनिग्रहात् ।।७।। तीर्थङ्कराश्चतुर्युक्ता, विंशतिवृषभादयः । क्लिष्टाष्टकर्मनिर्मुक्ताः, केवलज्ञानभास्कराः ।।८।। महाव्रतधरो धीरः, सर्वागमरहस्यवित् । क्रोधमानादिविजयी, निर्ग्रन्थो गुरुरुच्यते ।।९।। प्रत्यक्षं च परोक्षं च, द्वे प्रमाणे इह स्मृते । तत्र प्रमेयं स्याद्वादाधिष्ठितं द्रव्यषण्मयम् ।।१०।। धर्माधर्मो नभः कालः, पुद्गलश्चेतनस्तथा । द्रव्यषटकमिदं ख्यातं, तद्भेदास्त्वागमे स्मृताः ।।११।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org