SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८८ विभाग-२, षड्दर्शनसमुच्चयावचूर्णि (इ)न्द्रियम [मि] तिक्रम एव शीघ्रः । योगोऽयमेव मनसा किमगम्यमस्ति यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ।।" अव्यभिचारि(र)कं ज्ञानान्तरेण नान्यथाभावि, शुक्तिशकले कलधौतबोधो व्यभिचारी । व्यवसायात्मकं व्यवहारसाधकं सजलधरणितले जलहारं(ज्ञान) व्यवहारासाधकत्वादप्रमाणम् । व्यपदेशो विपर्ययस्तेन रहितम् । तु पुनरनुमानं तत्पूर्व (बं) प्रत्यक्षपूर्वं त्रिप्रकारम् ।।१७-१८ ।। पूर्ववच्छेषवत् सामान्यतो दृष्टम् । तत्र त्रिषु मध्ये कारणात् मेया(घात् कार्य) तवृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्यमनुमानं निदर्शनेन द्रढयति ।।१९।। रोलम्बा भ्रमराः, गवलं माहिषं श्रृङ्गम्, व्यालाः गजाः सर्पा (वा), तमाला वृक्षाः, मलिना अर्थात् कृष्णा त्विट येषाम् । एवंप्राया इत्युपलक्षणेन परेऽत्युन्नतत्वगर्जितत्वा [ता] दयो विशेषा ज्ञेयाः ।।२०।। यच्च कार्यात्फलात् कारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं तच्छेषवत् । यथाविधप्रवहत्सलिलनदीपूरात् उपरिशिखरिशिखरोपरि जलाभिवर्षणज्ञानम् ।।२१।। चः पुनरर्थे । सामान्यतोदृष्टं तदनुमानं यथा पुंसि देवदत्तादौ देशान्तरत्वाप्तिर्गतिपूर्विका दृष्टा यथा उज्जयिन्याः प्रस्थिता [तो] माहिष्मती प्राप [प्तः] । तथा सूर्योदया (सूर्यस्य उदया) [सूर्यपि उदया] चलात् सायमस्ताचलगमनं [गमनं] ज्ञापयति ।।२२।। क्रमागतमपि शाब्दप्रमाणमुपेक्ष्य उपमानमाह-तदुपमानं यत्तदोर्नित्याभिसंबन्धात् । यत्, किंचिद् अप्रसिद्धस्य अज्ञायमानस्य अर्थस्य ज्ञापन प्रसिद्धधर्मसाधादाबालगोपालाङ्गनाविदितात् क्रियते । साधर्म्य समानधर्मत्वम् । यथा अरण्यवासी चिरपरिचितगोगवयलक्षणो नागरिकेण गावा [गवोप] लक्षणवता पृष्टो दृष्टान्तमदात् ।।२३।। तु पुनः । आप्तोऽवितथवादी हितश्च यो जनताथ्यो [जनस्तस्य तथ्यो] हितोपदेशो देशनावाक्यं तच्छाब्दमागमप्रमाणम् । अथ प्रमाण (प्रमेय) लक्षणमाह [प्रमेयलक्षणमाश्रित्याह-अथ] प्रमाणग्राह्योऽर्थः प्रमेयम् । तुः पुनरर्थे । आत्मा च देहश्चेति द्वन्द्वः । आदिशब्देन षण्णां प्रमेयार्थानां परिग्रहः । तत्र सचेतनत्व Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy