________________
विभाग- २, षड्दर्शनसमुच्चयावचूर्णि
कर्तृत्वसर्वगतत्वादिना आत्मा अनुमीयते, एवं देहादयः, अत्र तु ग्रन्थविस्तरतया नात्र प्रपञ्चिताः ।।२४।।
संशयादिस्वरूपमाह । दूरावलोकनेन पदार्था (र्थ ) परिच्छेदकधर्मेषु किमेतदिति सन्देहोऽयं स्थाणुर्वा पुरुषो वेति संशयः । अर्थित्वात्प्राणी साध्यं कार्यं प्रति प्रवर्त्तते प्रतीत्यऽध्याहार्यम् । न हि निष्फलः कार्यारम्भः इति ।। २५ ।।
२८९
यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति उभयसम्मतत्वात् । उक्तं च " तावदेव चलत्यर्थो मन्तुर्विषयमागतः । तावन्नोत्तम्भतेनैव दृष्टान्तो नावलम्ब्यते । " एष दृष्टान्तः । सिद्धान्तः पुनश्चतुर्धा - सर्वतन्त्रप्रतितन्त्र- अधिकरणअभ्युपगमभेदात् । विशेषार्थो विस्तरग्रन्थादवसेयो नाममात्रकथनम् ।।२६।।
प्रतिज्ञा पक्षः, वह्निमानयं सानुमान् । हेतुर्लिङ्गवचनं धूमवत्त्वात् । दृष्टान्त उदाहरणम्, यथा महानसमिति । उपनयो हेतोरुपसंहारकं वचनम्, धूमवांश्चायम् । निगमनं हेतूपदेशेन पुनः साधर्म्यापसंहरणम्, तस्माद् वह्निमान् पर्वत इत्यादि पञ्चावयवस्वरूपनिरूपणमवयवतत्त्वम् (ज्ञेयमिति ) । दूराद् दृग्गोचरे स्पष्टप्रतिभासाभावात् 'किमयं स्थाणुर्वा पुरुषो वा' इति संशयः, तदुपरमे काकादिपतनावलोकनेन आदिशब्दात् स्थाणुधर्मो ग्राह्यः अत्र कीलकेन भाव्यम्, पुरुषस्य शिरःकम्पनहस्तचालनादिभावात् । स्थाणुरेवायं पुरुष एवायमिति यः प्रतीतिविषयः [ स निर्णयः ] ।।२७-२८ ।।
,
।।२९।।
-
कथा प्रामाणिकी तस्या अभ्यासकारणं यः स वादः पक्षः प्रतिज्ञा प्रतिपक्षः प्रतिज्ञोपन्यासप्रतिपंथी तयोः संग्रहात्, निग्राहकजयपराजयानपेक्षगुरुविनेययोः
विजयाभिलाषिणा वादिनः प्रतिवादिनश्च प्रारब्धप्रमाणोपन्यासगोष्ठी छलं त्रिधावाक्छलम्, सामान्यछलम्, उपचारछलम् । जातयः २४ भेदाः । आदे (दिशब्दात्) निग्रहस्थानानि। एतैः कृत्वा परपक्षनिराकरणं दूषणोत्पादेन स्वमतस्थापनेन स जल्पः । सा वितण्डा, या वादिप्रयुक्तपक्षप्रतिरोधकप्रतिवादिन्यस्तप्रतिपक्षरहिता ||३०||
For
हेतुरूपवदाभासन्ते हेत्वाभासाः पञ्च । पक्षे (क्ष) धर्मत्वं नास्ति सोऽसिद्धः । विपक्षे सन् प्रतिपक्षे [सपक्षे] चासन् विरुद्धः । पक्षत्रयवृत्तिरनैकान्तिकः ।