________________
विभाग- २, षड्दर्शनसमुच्चयावचूर्णि
निर्विकल्पकम्, बाह्यं स्थूलपदार्थगतं ज्ञानं सविकल्पकं भ्रान्तं च । तु पुनः त्रिरूपात् पक्षधर्मत्वं-सपक्ष (क्षे ) सत्त्व (त्त्वं) विपक्षव्यावृत्तिरूपात् लिङ्गतो धूमादेः [ यत् ] लिङ्गिनो वैश्वानरादेर्ज्ञानं तदनुमानन् । सूत्रे लक्षणं नेक्षणं [ णीयं ] तेन चरमपदस्य नवाक्षरत्वेऽपि न दोषः । । १० ।।
२८७
,
साध्यधर्मविशिष्टो धर्मी पक्षः, यथा 'अद्रिरयं वह्निमान् धूमवत्त्वात्' अत्र पर्वतः पक्षः धर्मत्त्वं वह्निमत्त्वं धूमवत्त्वेन व्याप्तम् । सपक्षे सत्त्वमिति यो यो धूमवान् स स अग्निमान् यथा महानसे, धूमवत्त्वेन हेतुना सपक्षे महानसे सत्त्वं वह्निमत्त्वम् । विपक्षे नास्तिता यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा जलाशये वह्निमत्त्वं व्यावर्त्तमानं व्याप्यं धूमवत्त्वमादाय व्यावर्तते ।। ११ । ।
अयं संक्षेपो निवेदितः कथितः, बौद्धानां राद्धान्तः सिद्धान्तः [तस्य ] [तद्वाच्यः] यद्वाच्यम्, इतो नैयायिकस्य विशेषशैवशासनस्य ।। १२ ।।
अक्षपादा नैयायिकाः । सृष्टिः प्राणी (णि)नां समु [नामु] त्पत्तिः, संहारः तद्विनाशः तत्करोतीति । विश्वस्य हि कश्चित् स्रष्टा संहर्ता विज्ञेयः, केवलसृष्टौ च निरन्तरोत्पद्यमानापारप्राणिगणस्य भुवनत्रयेऽप्यमातृत्वमिति [ प्राणिगणस्यापारत्वात् ] संहारकर्तापि कश्चिदभ्युपगन्तव्यः जगतः कार्यत्वाच्च । शिव ईश्वरः । विभुः [ सर्व ] व्यापकः । नित्यश्चासौ एकश्चेति, [अ] प्रच्युतानुत्पन्नस्थिर (रैक)स्वभावं हि नित्यम्, एकोऽद्वितीयः बहूनां घटना [ घटनां ] युक्तेः । सर्वज्ञः स सर्वविशेषज्ञानात् [तात्] शाश्वतबुद्धिस्थानम्, क्षणिकबुद्धित्वे हि
पराधीनता ।।१३।।
अत्र नैयायिक प्रमाणादीनि षोडशतत्त्वानि यथाक्रमं व्याक्रियमाणानि । नामानि सुगमानि । एवम् अमुना प्रकारेण प्रकटनमार्यस्य [मर्थस्य ] पदार्थस्योपलब्धिर्ज्ञानं तस्य हेतुः कारणं प्रमाणं चतुर्विधम् ।।१४-१६।।
चतुः प्रमाणि(ण) (णानां) नामानि । अथ प्रत्यक्षानुमानस्वरूपमाह - इन्द्रियं चार्थश्चेति तयोः · संनिकर्षात् संयोगादुत्पन्नम्, इन्द्रियार्थयोर्हि नैकदा ( ट्यात्) संयोगाज्ज्ञानम् । यदुक्तम् - " आत्मा सहे ( है ) ति मनसा मन इन्द्रियेण, स्वार्थेन चे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org