________________
विभाग- २, षड्दर्शन समुझय, लघुवृत्तिः
मोक्षतत्त्वाभाव इति चेत्; न; मोक्षे हि द्रव्यप्राणानामेवाभावः । भावप्राणास्तु नैष्कर्मिकावस्थायामपि सन्त्येव । यदुक्तम् -
२६४
“यस्मात्क्षायिकसम्यक्त्ववीर्यसिद्धत्वदर्शनज्ञानैः । आत्यन्तिकैः सयुक्तो निर्द्वन्द्वेनापि च सुखेन ।
ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तैर्हि । तस्मात्तज्जीवत्वं हि नित्यं सर्वस्य जीवस्य ।। " [ सङ्गतं देहवियोगान्मोक्षः, आदिशब्दाद्देहेन्द्रियधर्मविरहोऽपीति पद्यार्थः । एवं नामोद्देशेन तत्त्वानि सङ्कीर्त्य फलपूर्वकमुपसंहारमाह -
( मू. श्लो. ) एतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता । । ५३ ।।
एतानि पूर्वोक्तानि, तत्र जिनमते, तत्त्वानि यः कश्चित् स्थिराशयो दृढचित्तः सन् श्रद्धत्ते, अवैपरीत्येन मनुते । एतावता जानन्नपि अश्रद्दधानो मिथ्यादृगेव । यथोक्तं - श्रीगन्धहस्तिमहातर्फे -" द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्या" [
]
इति । तस्य दृढमानसस्य सम्यक्त्वज्ञानयोगेन चारित्रयोग्यता चारित्रार्हता । सम्यक्त्वज्ञानयोगेनेति । सम्यक्त्वं च ज्ञानं च सम्यक्त्वज्ञाने तयोर्योगस्तेन । ज्ञानदर्शनविनाकृतस्य हि चारित्रस्य सम्यक्चारित्रव्यवच्छेदार्थं सम्यक्त्वज्ञानग्रहणमिति ।
फलमाह
( मू. श्लो.) तथाभव्यत्वपाकेन यस्यैतत् त्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगाज्जायते मोक्षभाजनम् । । ५४ ।।
] इति
तथेत्युपदर्शने । भव्यत्वपाकेन परिपक्वभव्यत्वेन तद्भव एवावश्यं मोक्षे गन्तव्यमिति । भव्यत्वस्य परिपाकेन यस्य पुंसः स्त्रियो एतत् त्रितयं दर्शनज्ञानचारित्ररूपं भवेत् । यत्तदोर्नित्याभिसंबन्धात् सोऽनुक्तोऽपि संबध्यत इति । स पुमान्मोक्षभाजनं जायते निर्वाणश्रियं भुङ्क इत्यर्थः । कस्मात् ? सम्यग्ज्ञानक्रियायोगात् । सम्यगिति सम्यक्त्वं दर्शनं, ज्ञानमागमावबोधः, क्रिया च
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International