________________
विभाग-२, षड्दर्शन समुश्चय, लघुवृत्ति:
२६५
चरणकरणात्मिकास्तासां योगः संबन्धस्तस्मात् । न च केवलं दर्शनं ज्ञानं चारित्रं वा मोक्षहेतुकम् । यदाहुर्भद्रबाहुस्वामिपादाः -
"सुबहुं पि सुयमहीयं किं काही चरणविप्पमुक्कस्स ।
अन्धस्स जह पलित्ता दीवसयसहस्सकोडी वि ।। तथा - "नाणं चरित्तहीणं लिंगग्गहणं च दंसणविहीणं ।
संजमहीणं च तवं जो चरइ निरत्थयं तस्स ।।" दर्शनज्ञानचारित्राणि हि समुदितान्येव मोक्षकारणानि । यदुवाच वाचकमुख्यः - "दर्शनज्ञानचारित्राणि मोक्षमार्गः (त० सू० १/१) इति ।।५४ ।। प्रमाणे आह - (मू. श्लो.) प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते ।
अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ।।५५।। तथेति प्रस्तुतमतानुसंधाने द्वे प्रमाणे मते अभिमते । के ते ? इत्याह - प्रत्यक्ष च परोक्षं चेति । अश्नुते अक्ष्णोति वा व्याप्नोति सकलद्रव्यक्षेत्रकालभावानित्यक्षो जीवः, अश्नुते विषयमित्यक्षमिन्द्रियं च अक्षमक्षं प्रतिगतं प्रत्यक्षम् । इन्द्रियाण्याश्रित्य व्यवहारसाधकं यज्ज्ञानमुत्पद्यते तत् प्रत्यक्षमित्यर्थः । अवधिमनःपर्ययकेवलज्ञानानि, तद्भेदाश्च प्रत्यक्षमेव अत एव सांव्यवहारिकपारमार्थिकैन्द्रियिका नैन्द्रियिकादयो भेदा अनुमानादधिकज्ञानविशेषप्रकाशकत्वादत्रैवान्तर्भवति । परोक्षं चेति । अक्षाणां परं परोक्षम् । अक्षेभ्य: परतो वर्तत इति वा। परेणेन्द्रियादिना वोक्ष्यते परोक्षं स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदम् । अमुयैव भङ्ग्या मतिश्रुतज्ञाने अपि परोक्षमेवेति द्वे प्रमाणे ।
प्रमाणमुक्त्वा तद्गोचरमाह - तु पुनः, इह जिनमते, प्रमाणविषयः प्रमाणयोः प्रत्यक्षपरोक्षयोर्विषयो गोचरो ज्ञेय इत्यध्याहारः । किं तदित्याशङ्कायामनन्तधर्मकं वस्त्विति । वस्तुतत्त्वं पदार्थस्वरूपम् । किंविशिष्टम् । अनन्तधर्मकम् - अनन्तास्त्रिकालविषयत्वादपरिमिता ये धर्माः सहभाविनः क्रमभाविनश्च पर्याया यत्रेति । अनेन साधनमपि दर्शितम् । तथा हि तत्त्वमिति धर्मि, अनन्तधर्मात्मकत्वं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org