SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ विभाग- २, षड्दर्शन समुच्चय, लघुवृत्तिः तु पुनस्तन्निरोध आस्रवद्वारप्रतिरोधः संवरः तत्त्वम् । संवरप्रकृतयस्तु सप्तपञ्चाशत्तद्यथा "समिइगुत्तिपरीसहजइधम्मभावणाचरित्ताणि । पणतिगदुवीसदसबार पञ्चभेएहिं सगवण्णा ।। " [नवतत्त्व प्रक. २५] पञ्च समितयस्तिस्त्रो गुप्तयो, द्वाविंशतः परीषहा, दशविधो यतिधर्मः, द्वादश भावनाः, पञ्च चारित्राणीति प्रकृतयः । बन्धो नाम जीवस्य प्राणिनः कर्मणो वेद्यस्यान्योन्यानुगमात् परस्परं क्षीरनीरन्यायेन लोलीभावाद् यो द्वयोरपि जीवकर्मणोः संबन्धः संयोगः स बन्धो नाम तत्त्वमित्यर्थः । स च चतुर्विधः प्रकृतिस्थित्यनुभागप्रदेशभेदात् । "स्वभावः प्रकृतिः प्रोक्तः स्थिति: कालावधारणम् 1 अनुभागो रसो ज्ञेयः प्रदेशो दलसंचयः ।। " [] इति । इत्यादिः स बन्धो ज्ञेयः । निर्जरामोक्षौ चाह ( मू. श्लो.) बद्धस्य कर्मणः शाटो यस्तु सा निर्जरा मता । यथा - २६३ आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ।। ५२ ।। यः पुनर्बद्धस्य स्पृष्टबद्धनिधत्तनिकाचितादिरूपेणार्जितस्य कर्मणस्तपश्चरणध्यानजपादिभिः शाटः कर्मक्षपणं सा निर्जरा मता पूर्वसूरिभिरिति । सा पुनर्द्वविधा, सकामाकामभेदेन । तु पुनर्देहादेरात्यन्तिको वियोगो मोक्ष उच्यते । स च नवविधो “संतपयपरूवणया दव्वपमाणं च खित्तफुसणा य । कालो य अंतरं भागो भावो अप्पाबहुं चेव ।।" [नवतत्त्व प्रक. ४३] इति । नवप्रकारो हि करणीयः । बाह्यप्राणानामात्यन्तिकापुनर्भावित्वेनाभावः शिव इत्यर्थः । ननु सर्वथा प्राणाभावादजीवत्वप्रसङ्गः तथा च द्वितीयतत्त्वान्तर्भूतत्वात् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy