SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ विभाग- २, षड्दर्शन समुच्चय, लघुवृत्तिः अजीवभेदाः । पुण्यं सत्कर्मपुद्गला इति । पुण्यं नाम तत्त्वं कीदृगित्याह - सत्कर्मपुद्गला इति । सच्छोभनं सातवेद्यं कर्म, तस्य पुद्गला दलपाटकानि पुण्यप्रकृतय इत्यर्थः । ताश्च द्वाचत्वारिंशत्तद्यथा २६२ "नरतिरिसुराउउच्चं सायं परघाय आयवज्जोयं । तित्थुस्सासनिमाणं पणिदिवइरुस्सभचउरंसं ।। तसदसचउवन्नाई सुरमणुदुगपंचतणुउवंगतिअं । अगुरुलहुपढमखगई बायालीसंति सुहपयडी ।।” भावार्थस्तु ग्रन्थविस्तरभयान्नोच्यत इति श्लोकार्थः । शेषतत्त्वमाह - (मू. श्लो.) पापं तद्विपरीतं तु मिथ्यात्वाद्यास्तु हेतवः । यस्तैर्बन्धः स विज्ञेय आस्रवो जिनशासने ।। ५० ।। तु 1 पुनस्तद्विपरीतं पुण्यप्रकृतिविसदृशं पापं पापतत्त्वमित्यर्थः मिथ्यात्वाद्याश्चेति । मिथ्यादर्शनाविरतिप्रमादकषाययोगा हेतवः । पापस्य कारणानि तत्प्रकृतयश्च यशीतिस्तद्यथा "" 'थावरदसचउजाई अपढमसंठाणखगइसंघयणा । तिरिनिरयदुगुवघाई वन्नचऊनामचउतीसा ।। " “नरयाउनीय अस्सायघाइपणयालसहियबासीई" पुण्यप्रकृतिव्यतिरिक्ताः पापप्रकृतयो द्वयशीतिः । । इति ।। वर्णचतुष्कस्य तु शुभाशुभरूपेणोभयत्रापि संबध्यमानत्वान्न दोषः । यस्तैर्बन्ध इति यस्तैमिथ्यादर्शनादिभिर्बन्धः स कर्मबन्धः स जिनशासन आस्रवो विज्ञेयः, आस्रवतत्त्वं ज्ञेयमित्यर्थः । तत्प्रकृतयश्च द्वाचत्वारिंशत् । तथा हि पञ्चेन्द्रियाणि चत्वारः कषायाः, पञ्च पञ्च [अ] व्रतानि मनोवचनकायाः, पञ्चविंशतिक्रियाश्च कायिक्यादय, इत्यास्रवः । (मू. श्लो.) संवरस्तनिरोधस्तु बन्धो जीवस्य कर्मणः । , Jain Education International - अन्योन्यानुगमात्कर्मसंबन्धो यो द्वयोरपि । । ५१ ।। For Personal & Private Use Only , www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy