________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक
२३. सकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्य
पर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् । २४. तद्वान् अर्हन् निर्दोषत्वात् । २५. निर्दोषोऽसौ, प्रमाणाविरोधिवाक्त्वात् । २६. तदिष्टस्य प्रमाणेनाऽबाध्यमानत्वात् तद्वाचस्तेनाविरोधसिद्धिः । २७. न च कवलाहारवत्त्वेन तस्याऽसर्वज्ञत्वम्, कवलाहारसर्वज्ञत्वयोरविरोधात्।
(तृतीयः परिच्छेदः) १. अस्पष्टं परोक्षम्। २. स्मरणप्रत्यभिज्ञानतर्वानुमानागमभेदतस्तत् पञ्चप्रकारम् । ३. तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं संवेदनं
स्मरणम्। ४. तत्तीर्थकरबिम्बम् इति यथा। ५. अनुभवस्मृतिहेतुकं तिर्यगूर्खतासामान्यादिगोचरं, संकलनात्मकं ज्ञानं
प्रत्यभिज्ञानम्। ६. यथा तज्जातीय एवायं गोपिण्डः, गोसदृशो गवयः, स एवायं जिनदत्तः
इत्यादि। ७. उपलम्भानुपलम्भसम्भवं, त्रिकालीकलितसाध्यसाधनसम्बन्धाद्यालम्बनं, ___ इदमस्मिन् सत्येव भवति' इत्याद्याकारं संवेदनमूहापरनामा तर्कः । ८. यथा यावान् कश्चिद् धूमः, स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसति
असौ न भवत्येव। ९. अनुमानं द्विप्रकारं स्वार्थं परार्थं च । १०. तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् । ११. निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः । १२. न तु त्रिलक्षणकादिः । १३. तस्य हेत्वाभासस्यापि सम्भवात् । १४. अप्रतीतमनिराकृतमभीप्सितं साध्यम् । १५. शङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतवचनम् । १६. प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्यनिराकृतग्रहणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org