________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक
RU
(द्वितीयः परिच्छेदः) १. तद् द्विभेदं प्रत्यक्षं च परोक्षं च । २. स्पष्टं प्रत्यक्षम्। ३. अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् । ४. तद् द्विप्रकारं सांव्यवहारिकं पारमार्थिकं च । ५. तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च । ६. एतद् द्वितयमवग्रहेहावायधारणाभेदादेकशश्चतुर्विकल्पकम् । ७. विषयविषयिसंनिपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यम
वान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः । ८. अवगृहीतार्थविशेषाऽऽकाङ्क्षणमीहा। ९. ईहितविशेषनिर्णयोऽवायः। १०. स एव दृढतमावस्थाऽऽपन्नो धारणा । ११. संशयपूर्वकत्वादीहायाः संशया भेदः । १२. कथञ्चिदभेदेऽपि परिणामविशेषादेषां व्यपदेशभेदः। १३. असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावतयाऽनुभूयमानत्वात्
अपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात् क्रमभावित्वाच्चैते व्यतिरिच्यन्ते । १४. क्रमोऽप्यमीषामयमेव, तथैव संवेदनात्, एवंक्रमाविर्भूतनिजकर्मक्षयो
पशमजन्यत्वाच्च । १५. अन्यथा प्रमेयानवगतिप्रसङ्गः। १६. न खल्वदृष्टमवगृह्यते, न चानवगृहीतं संदिह्यते, न चासंदिग्धमीह्यते, न ___ चानीहितमवेयते, नाप्यनवेतं धार्यते । १७. क्वचित् क्रमस्यानुपलक्षणमेषामाशूत्पादात्, उत्पलपत्रशतव्यति भेदक्रमवत्। १८. पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम्। १९. तद् विकलं सकलं च ।। २०. तत्र विकलमवधिमन:पर्यायज्ञानरूपतया द्वधा । २१. अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुण प्रत्ययं रूपिद्रव्यगोचर
मवधिज्ञानम्। २२. संयमविशुद्धिनिबन्धनाद् विशिष्टावरणविच्छेदाज्जातं मनोद्रव्यपर्याया tain लम्बन मनःपर्यायज्ञानम् । For Personal & Private Use Only
HOM Jain Education Interna
www.jainelibrary.org