SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्, प्रमाणनयतत्त्वालोक । षड्दर्शन सूत्र संग्रहः । जैनदर्शनम् (१) श्रीवादिदेवसूरिकृतः (अ) प्रमाणनयतत्त्वालोकः (प्रथम परिच्छेदः) १. प्रमाणनयतत्त्वव्यवस्थापनार्थमिदमुपक्रम्यते । २. स्वपरव्यवसायि ज्ञानं प्रमाणम् । ३. अभिमतानभिमतवस्तु स्वीकारतिरस्कारक्षम हि प्रमाणम्, अतो ज्ञानमेवेदम्। ४. न वै सन्निकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नम्, तस्यार्थान्तरस्येव स्वार्थ व्यवसितौ साधकतमत्वानुपपत्तेः । ५. न खल्वस्य स्वनिर्णीतौ कारणत्वम् स्तम्भादेरिवाचेतनत्वात् । ६. नाप्यर्थनिश्चितौ, स्वनिश्चितावकरणस्य कुम्भादेरिव तत्राप्यकरणत्वात् । ७. तद् व्यवसायस्वभावम्, समारोपपरिपन्थित्वात् प्रमाणत्वाद् वा । ८. अतस्मिंस्तदध्यवसायः समारोपः। ९. स विपर्ययसंशयानध्यवसायभेदात् त्रेधा । १०. विपरीतैककोटिनिष्टङ्कनं विपर्ययः । ११. यथा शुक्तिकायामिदं रजतमिति । १२. साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पशि ज्ञानं संशयः। १३. यथाऽयं स्थाणुर्वा पुरुषो वा । १४. किमित्यालोचनमात्रमनध्यवसायः । १५. यथा गच्छत्तृणस्पर्शज्ञानम्। १६. ज्ञानादन्योऽर्थः परः। १७. स्वस्य व्यवसायः स्वाभिमुख्येन प्रकाशनम्, बाह्यस्येव तदाभिमुख्येन, करिकलभकमहमात्मना जानामि । १८. कः खलु ज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपि तत्प्रकारं । नाभिमन्येत मिहिरालोकवत् । १९. ज्ञानस्य प्रमेयाऽव्यभिचारित्वं प्रामाण्यम्। २०. तदितरत्त्वप्रामाण्यम् । २१. तदुभयमुत्पतौ परत एव, ज्ञप्तौ तु स्वतः परतश्च । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy