________________
२१८
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम्
३. ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरुक्तः । ४. गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेर्द्रव्यं कारणम् । ५. सामान्यविशेषेषु सामान्यविशेषाभावात्तदेव ज्ञानम् । ६. सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु। ७. द्रव्ये द्रव्यगुणकर्मापेक्षम् । ८. गुणकर्मसु गुणकर्माभावाद् गुणकर्मापेक्षं न विद्यते । ९. समवायिनः श्वैत्याच्छ्वैत्यबुद्धेश्च श्वेते बुद्धिस्त एते कार्यकारणभूते । १०. द्रव्येष्वनितरेतरकारणाः । ११. कारणायौगपद्यात् कारणक्रमाच्च घटपटादिबुद्धीनां क्रमो न हेतुफलभावात् । ॥इति कणादसूत्रपाठे अष्टमाध्यायस्य प्रथममाह्निकम् ॥
द्वितीयमाह्निकम् १. अयमेष त्वया कृतं भोजयैनमिति बुद्ध्यपेक्षम् । २. दृष्टेषु भावाददृष्टेष्वभावात् । ३. अर्थ इति द्रव्यगुणकर्मसु। ४. द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम् । ५. भूयस्त्वाद्गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः । ६. तथापस्तेजोवायुश्च रसरूपस्पर्शाविशेषात् ॥इति कणादसूत्रपाठे अष्टमाध्यायस्य द्वितीयमाह्निकम् अष्टमोऽध्यायश्च ॥
अथ नवमोऽध्यायः प्रथममाह्निकम् १. क्रियागुणव्यपदेशाभावात् प्रागसत् । २. सदसत्। ३. असतः क्रियागुणव्यपदेशाभावादर्थान्तरम् । ४. सच्चासत् । ५. यच्चान्यदसदतस्तदसत् । ६. असदिति भूतप्रत्यक्षाभावात् भूतस्मृतेविरोधिप्रत्यक्षवत् । ७. तथाऽभावे भावप्रत्यक्षत्वाच्च । ८. एतेनाघटोऽगौरधर्मश्च व्याख्यातः । ९. अभूतं नास्तीत्यनर्थान्तरम् । १०. नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org