SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम् ११. आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् । १२. तथा द्रव्यान्तरेषु प्रत्यक्षम् । १३. असमाहितान्त:करणा उपसंहृतसमाधयस्तेषां च । १४. तत्समवायात् कर्मगुणेषु । १५. आत्मसमवायादात्मगुणेषु । ॥ इति कणादसूत्रपाठे नवमाध्यायस्य प्रथममाह्निकम् ॥ द्वितीयमाह्निकम् १. अस्येदं कार्यं कारणं संयोगि विरोधि समवायि चेति लैङ्गिकम् । २. अस्येदं कार्यकारणसम्बन्धश्चावयवाद्भवति । ३. एतेन शाब्दं व्याख्यातम् । ४. हेतुरपदेशो लिङ्गं निमित्तं प्रमाणं करणमित्यनर्थान्तरम् । ५. अस्येदमिति बुद्ध्यपेक्षितत्वात् । ६. आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः । ७. तथा स्वजः । ८. स्वप्नान्तिकम् । ९. धर्माच्च । १०. इन्द्रियदोषात् संस्कारदोषाच्चाविद्या । ११. तद्दुष्टज्ञानम् । १२. अदुष्टं विद्या । १३. आर्षं सिद्धदर्शनं च धर्मेभ्यः । ॥ इति कणादसूत्रपाठे नवमाध्यायस्य द्वितीयमाह्निकम्, नवमोऽध्यायश्च ॥ अथ दशमोध्यायः प्रथममाह्निकम् १. इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः । २. संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः । ३. तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम् । ४. अभूदित्यपि । ५. सति च कार्यादर्शनात् । ६. एकार्थसमवायिकारणान्तरेषु दृष्टत्वात् । ७. एकदेश इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेषस्तद्विशेषेभ्यः । ॥ इति कणादसूत्रपाठे दशमाध्यायस्य प्रथममाह्निकम् ॥ For Personal & Private Use Only Jain Education International २१९ www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy