________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम्
२१७
३. एकत्वैक पृथक्त्वयोरेकत्वैक पृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां ___ व्याख्यातः । ४. निःसंख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते । ५. भ्रान्तं तत् । ६. एकत्वाभावाद्भक्तिस्तु न विद्यते । ७. कार्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते । ८. एतदनित्ययोर्व्याख्यातम् । ९. अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः। १०. एतेन विभागो व्याख्यातः । ११. संयोगविभागयोः संयोगविभागाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः। १२. कर्मभिः कर्माणि गुणैर्गुणा अणुत्वमहत्त्वाभ्यामिति । १३. युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्यते । १४. गुणत्वात्। १५. गुणोऽपि विभाव्यते । १६. निष्क्रियत्वात् । १७. असति नास्तीति च प्रयोगात् । १८. शब्दार्थावसम्बन्धौ। १९. संयोगिनो दण्डात् समवायिनो विशेषाच्च । २०. सामयिकः शब्दार्थप्रत्ययः । २१. एकदिक्कालाभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परम्परं च । २२. कारणपरत्वात् कारणापरत्वाच्च । २३. परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः । २४. कर्मभिः कर्माणि। २५. गुणैर्गुणाः। २६. इहेदमिति यतः कार्यकारणयोः स समवायः । २७. द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः। २८. तत्त्वम्भावेन । ॥ इति कणादसूत्रपाठे सप्तमाध्यायस्य द्वितीयमाह्निकम्, सप्तमोऽध्यायश्च ॥
अथाष्टमोऽध्यायः प्रथममाह्निकम् १. द्रव्येषु ज्ञानं व्याख्यातम् । २. तत्रात्मा मनश्चाप्रत्यक्षे।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org