________________
२१६
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम्
अथ सप्तमोऽध्यायः प्रथममाह्निकम् १. उक्ता गुणाः। २. पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च । ३. एतेन नित्येषु नित्यत्वमुक्तम् । ४. अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात् । ५. अनित्येष्वनित्या द्रव्यानित्यत्वात् । ६. कारणगुणपूर्वकाः पृथिव्यां पाकजाः । ७. एकद्रव्यत्वात् । ८. अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते । ९. कारणबहुत्वाच्च । १०. अतो विपरीतमणु। ११. अणु महदिति तस्मिन् विशेषभावात् विशेषाभावाच्च । १२. एककालत्वात् । १३. दृष्टान्ताच्च । १४. अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैर्व्याख्यातः । १५. कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः । १६. अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः । १७. एतेन दीर्घत्वहस्वत्वे व्याख्याते । १८. अनित्येऽनित्यम् । १९. नित्ये नित्यम् । २०. नित्यं परिमण्डलम् । २१. अविद्या च विद्यालिङ्गम् । २२. विभवान्महानाकाशस्तथा चात्मा। २३. तदभावादणु मनः। २४. गुणैर्दिग्व्याख्याता। २५. कारणे कालः। ॥इति कणादसूत्रपाठे सप्तमाध्यायस्य प्रथममाह्निकम् ॥
द्वितीयमाह्निकम् १. रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम् । Jain २...तथा पृथक्त्व म्।।
For Personal & Private Use Only
www.jainelibrary.org