SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम् ९. तददुष्टे न विद्यते । १०. पुनर्विशिष्टे प्रवृत्तिः । ११. समे हीने वा प्रवृत्तिः । १२. एतेन हीनसमविशिष्टधार्मिकेभ्यः परस्वादानं व्याख्यातम् । १३. तथा विरुद्धानां त्यागः । - १४. हीने परे त्यागः । १५. समे आत्मत्यागः परत्यागो वा । १६. विशिष्टे आत्मत्याग इति । ॥ इति कणादसूत्रपाठे षष्ठाध्यायस्य प्रथममाह्निकम् ॥ द्वितीयमाह्निकम् १. दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय । २. अभिषेचनोपवासब्रह्मचर्य गुरुकुलवासवानप्रस्थयज्ञदानप्रोक्षण दिङ्नक्षत्रकालनियमाश्चादृष्टाय । ३. चातुराश्रम्यमुपधा अनुपधाश्च । ४. भावदोष उपधादोषोऽनुपधा । ५. यदिष्टरूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षितं च तच्छुचि । ६. अशुचीति शुचिप्रतिषेधः । ७. अर्थान्तरं च । ८. अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद् विद्यते वाऽर्थान्तरत्वाद् यमस्य । ९. असति चाभावात् । १०. सुखाद्रागः । ११. तन्मयत्वाच्च । १२. अदृष्टाच्च । १३. जातिविशेषाच्च । १४. इच्छाद्वेषपूर्विका धर्माधर्मप्रवृत्तिः । १५. तत्संयोगो विभागः । १६. आत्मकर्मसु मोक्षो व्याख्यातः । २१५ ॥ इति कणादसूत्रपाठे षष्ठाध्यायस्य द्वितीयमाह्निकम् षष्ठाध्यायश्च ॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy