________________
२१४
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम्
१०. वैदिकं च । ११. अपां संयोगाद्विभागाच्च स्तनयित्नोः । १२. पृथिवीकर्मणा तेजः कर्म वायुकर्म च व्याख्यातम् । १३. अग्नेरूज्वलनं वायोस्तिर्वक्पवनमणूनां मनसश्चाद्यं कर्मा
दृष्टकारितम् । १४. हस्तकर्मणा मनसः कर्म व्याख्यातम् । १५. आत्मेन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे। १६. तदनारम्भ आत्मस्थे मनसि शरीरस्य दुःखाभावः स योगः।। १७. अपसर्पणमुपसर्पणमशि-तपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्य
दृष्टकारितानि। १८. तदभावे संयोगाभावोऽप्रादुर्भावश्च मोक्षः। १९. द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः २०. तेजसो द्रव्यान्तरेणावरणाच्च । २१. दिक्कालावकाशं च क्रियावद् वैधानिष्क्रियाणि । २२. एतेन कर्माणि गुणाश्च व्याख्याताः । २३. निष्क्रियाणां समवायः कर्मभ्यो निषिद्धः । २४. कारणं त्वसमवायिनो गुणाः । २५. गुणैर्दिग्व्याख्याता। २६. कारणेन कालः। ॥ इति कणादसूत्रपाठे पञ्चमाध्यायस्य द्वितीयमाह्निकम् पञ्चमाध्यायश्च ॥
अथ षष्ठोऽध्यायः प्रथममाह्निकम् १. बुद्धिपूर्वा वाक्यकृतिर्वेदे । २. ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम् । ३. बुद्धिपूर्वो ददातिः। ४. तथा प्रतिग्रहः। ५. आत्मान्तरगुणानामात्मान्तरेऽकारणत्वात् । ६. तदुष्टभोजने न विद्यते । ७. दुष्टं हिंसायाम्। ८. तस्य समभिव्याहारतो दोषः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org