SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम् अथ पञ्चमोऽध्यायः प्रथममाह्निकम् १. आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म । २. तथा हस्तसंयोगाच्च मुषले कर्म । ३. अभिघातजे मुषलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः । ४. तथात्मसंयोगो हस्तकर्मणि । ५. अभिघातान्मुषलसंयोगाद्धस्ते कर्म । ६. आत्मकर्म हस्तसंयोगाच्च । ७. संयोगाभावे गुरुत्वात् पतनम् । ८. नोदनविशेषाभावान्नोर्ध्वं न तिर्यग्गमनम् । ९. प्रयत्नविशेषान्नोदनविशेषः । १०. नोदनविशेषादुदसनविशेषः । ११. हस्तकर्मणा दारककर्म व्याख्यातम् । १२. तथा दग्धस्य विस्फोटने । यत्नाभावे प्रसुप्तस्य चलनम् । १३. १४. तृणे कर्म वायुसंयोगात् । १५. मणिगमनं सूच्यभिसर्पणमदृष्टकारणम् । १६. इषावयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः । १७. नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारदुत्तरं तथोत्तरमुत्तरं च । १८. संस्काराभावे गुरुत्वात् पतनम् । ॥ इति कणादसूत्रपाठे पञ्चमाध्यायस्य प्रथममाह्निकम् ॥ द्वितीयमाह्निकम् १. नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म । २. तद्विशेषेणादृष्टकारितम् । ३. अपां संयोगाभावे गुरुत्वात् पतनम् । ४. द्रवत्वात् स्यन्दनम् । ५. नाड्यो वायुसंयोगादारोहणम् । ६. नोदनापीडनात् संयुक्तसंयोगाच्च । २१३ ७. वृक्षाभिसर्पणमित्यदृष्टकारितम् । ८. अपां सङ्घातो विलयनं च तेजः संयोगात् । Jain तत्र विस्फूर्जथुर्लिङ्गम् । For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy