________________
२१२
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम्
अथ चतुर्थोऽध्यायः प्रथममाह्निकम् १. सदकारणवन्नित्यम् । २. तस्य कार्य लिङ्गम् । ३. कारणभावात् कार्यभावः । ४. अनित्य इति विशेषतः प्रतिषेधभावः । ५. अविद्या। ६. महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिः ७. सत्यपि द्रव्यत्त्वे महत्त्वे रूपसंस्काराभावाद्वायोरनुपलब्धिः । ८. अनेकद्रव्यसमवायात् रूपविशेषाच्च रूपोपलब्धिः । ९. तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । १०. तस्याभावादव्यभिचारः। ११. सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च
रूपिद्रव्यसमवायात् चाक्षुषाणि । १२. अरूपिष्वचाक्षुषाणि । १३. एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् । ॥इति कणादसूत्रपाठे चतुर्थाध्यायस्य प्रथममाह्निकम् ॥
द्वितीयमाह्निकम् १. तत्पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम् । २. प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं न विद्यते । ३. गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम् । ४. अणुसंयोगस्त्वप्रतिषिद्धः। ५. तत्र शरीरं द्विविधं योनिजमयोनिजं च । ६. अनियतदिग्देशपूर्वकत्वात् । ७. धर्मविशेषाच्च । ८. समाख्याभावाच्च । ९. संज्ञाया आदित्वात्। १०. सन्त्ययोनिजाः। ११. वेदलिङ्गाच्च । ___॥ इति कणादसूत्रपाठे चतुर्थाध्यायस्य द्वितीयमाह्निकम्, चतुर्थाऽध्यायश्च ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org