________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम्
२११
१६. यस्माद्विषाणी तस्मादश्वः। १७. यस्माद्विषाणी तस्माद् गौरिति चानैकान्तिकस्यौदाहरणम् । १८. आत्मेन्द्रियार्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत् । १९. प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । ॥ इति कणादसूत्रपाठे तृतीयाध्यायस्य प्रथममाह्निकम् ॥
द्वितीयमाह्निकम् । १. आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम्। २. तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ३. प्रयत्नाद्यौगपद्याज्ज्ञानायोगपद्याच्चैकम् । ४. प्राणाऽपाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे
च्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि । ५. तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ६. यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते । ७. सामान्यतो दृष्टाच्चाविशेषः । ८. तस्मादागमिकः। ९. अहमितिशब्दस्य व्यतिरेकानागमिकम्। १०. यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति । ११. दृष्ट्यात्मनि लिङ्गे एक एव दृढत्वात् प्रत्यक्षवत् प्रत्ययः । १२. देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे प्रत्ययः। १३. सन्दिग्धस्तूपचारः। १४. अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः। १५. देवदत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षोऽहङ्कारः । १६. सन्दिग्धस्तूपचारः। १७. न तु शरीरविशेषाद् यज्ञदत्तविष्णुमित्रयोर्ज्ञानं विषयः १८. अहमिति मुख्ययोग्याभ्यां शब्दवद्वयतिरेकाव्यभिचाराद् विशेष
सिद्धेर्नागमिकः। १९. सुखदुःखज्ञाननिष्पत्त्यविशेषादैकात्म्यम् । २०. व्यवस्थातो नाना। २१. शास्त्रसामर्थ्याच्च।
॥ इति कणादसूत्रपाठे तृतीयाध्यायस्य द्वितीयमाह्निकम् तृतीयोऽध्यायश्च ॥
K
डात Jain Education International
For Personal & Private Use Only
व्याय॥
www.jainelibrary.org