SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम् ३०. शब्दलिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च । ३१. तदनुविधानादेकपृथक्त्वं चेति । ॥ इति कणादसूत्रपाठे द्वितीयाऽध्यायस्य प्रथममाह्निकम् ॥ द्वितीयमाह्निकम् १. पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्रादुर्भावो वस्त्रो गन्धाभावलिङ्गम् । २. व्यवस्थितः पृथिव्यां गन्धः । ३. एतेनोष्णता व्याख्याता । ४. तैजस उष्णता । ५. अप्सु शीतता । ६. अपरस्मिन्नपरं युगपत् चिरं क्षिप्रमिति काललिङ्गानि । ७. द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ८. तत्त्वम्भावेन । ९. नित्येष्वभावादनित्येषु भावात् कारणे कालाख्येति । १०. इत इदमिति यतस्तद्दिश्यं लिङ्गम् । ११. द्रव्यत्वनित्यत्वे वायुना व्याख्याते । १२. तत्त्वम्भावेन । १३. कार्यविशेषेण नानात्वम् । १४. आदित्यसंयोगाद्भूतपूर्वाद्भविष्यतो भूताच्च प्राची । १५. तथा दक्षिणा प्रतीची उदीची च । १६. एतेन दिगन्तरालानि व्याख्यातानि । १७. सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयः । १८. दृष्टश्च दृष्टवत् । १९. यथादृष्टमयथादृष्टत्वाच्च । २०. विद्याऽविद्यातश्च संशयः । २१. श्रोत्रग्रहणो योऽर्थः स शब्दः । २२. तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्य उभयथा दृष्टत्वात् । २३. एकद्रव्यत्वान्न द्रव्यम् । २४. नापि कर्माऽचाक्षुषत्वात् । Jain Education International कर्मभिः साधर्म्यम् । २०९ For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy