________________
२०८
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम्
अथ द्वितीयोऽध्यायः प्रथममाह्निकम् १. रूपसगन्धस्पर्शवती पृथिवी। २. रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः । ३. तेजो रूपस्पर्शवत् । ४. स्पर्शवान् वायुः। ५. त आकाशे न विद्यन्ते । ६. सर्पिजतुमधूच्छिष्टानामग्निसंयोगाद्रवत्वमद्भिः सामान्यम्। ' ७. त्रपुसीसलोहरजतसुवर्णानामग्निसंयोगाद् द्रवत्वमद्भिःसामान्यम् । ८. विषाणी ककुद्वान् प्रान्तेबालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम् । ९. स्पर्शश्च वायोः। १०. न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः। ११. अद्रव्यवत्त्वेन द्रव्यम् । १२. क्रियावत्त्वाद् गुणवत्त्वाच्च । १३. अद्रव्यत्वेन नित्यत्वमुक्तम् । १४. वायोर्वायुसम्मूर्च्छनं नानात्वलिङ्गम् । १५. वायुसन्निकर्षे प्रत्यक्षाभावाद् दृष्टं लिङ्गं न विद्यते । १६. सामान्यतो दृष्टाच्चाविशेषः । १७. तस्मादागमिकम्। १८. संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम्। १९. प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः । २०. निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम्। २१. तदलिङ्गमेकद्रव्यत्वात् कर्मणः । २२. कारणान्तरानुक्लृप्तिवैधाच्च । २३. संयोगादभावः कर्मणः। २४. कारणगुणपूर्वकः कार्यगुणो दृष्टः । २५. कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः । २६. परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः। २७. परिशेषाल्लिङ्गमाकाशस्य । २८. द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २९. तत्त्वम्भावेन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org