SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम् २०७ २३. द्रव्याणां द्रव्यं कार्यं सामान्यम् । २४. गुणवैधान्न कर्मणां कर्म । २५. द्वित्वप्रभृतयः संख्यां पृथक्त्वसंयोगविभागाश्च । २६. असमवायात् सामान्यकार्यं कर्म न विद्यते । २७. संयोगानां द्रव्यम् । २८. रूपाणां रूपम्। २९. गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम्। ३०. संयोगविभागाश्च कर्मणाम्। ३१. कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् । ॥ इति कणादसूत्रपाठे प्रथमाध्यायस्य प्रथममाह्निकम् ॥ द्वितीयमाह्निकम् १. कारणाभावात् कार्याभावः । २. न तु कार्याभावात् कारणाभावः । ३. सामान्यं विशेष इति बुद्धयपेक्षम् । ४. भावोऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव । ५. द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च । ६. अन्यत्रान्त्येभ्यो विशेषेभ्यः । ७. सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । ८. द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता। ९. गुणकर्मसु च भावान्न कर्म न गुणः । १०. सामान्यविशेषाभावेन च। ११. अनेकद्रव्यवत्त्वन द्रव्यत्वमुक्तम् । १२. सामान्यविशेषाभावेन च । १३. तथा गुणेषु भावाद् गुणत्वमुक्तम् । १४. सामान्यविशेषाभावेन च । १५. कर्मसु भावात् कर्मत्वमुक्तम् । १६. सामान्यविशेषाभावेन च । १७. सदिति लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैको भावः । ॥ इति कणादसूत्रपाठे प्रथमाध्यायस्य द्वितीयमाह्निकम्, प्रथमोऽध्यायश्च ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy