________________
२०६
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम्
काणादसूत्रपाठः (७)॥ वैशेषिकदर्शनम् ॥
अथ प्रथमोऽध्यायः प्रथममाह्निकम् १. अथातो धर्मं व्याख्यास्यामः । २. यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः। ३. तद्वचनादाम्नायस्य प्रामाण्यम् । ४. धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां ___ साधर्म्यवैधाभ्यां तत्त्वज्ञानान्निःश्रेयसम् । ५. पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । ६. रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ
परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः । ७. उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि । ८. सदनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणा
मविशेषः। ९. द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम्। १०. द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् । ११. कर्म कर्मसाध्यं न विद्यते । १२. न द्रव्यं कार्य कारणं च भवति । १३. उभयथा गुणाः। १४. कार्यविरोधि कर्म । १५. क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम् । १६. द्रव्याश्रयगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । १७. एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् । १८. द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् । १९. तथा गुणः। २०. संयोगविभागवेगानां कर्म समानम्। २१. न द्रव्याणां कर्म । २२. व्यतिरेकात् ।
For Personal & Private Use Only
www.jainelibrary.org