SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम् १२. हीनमन्यतमेनाप्यवयवेन न्यूनम् । १३. हेतूदाहरणाधिकमधिकम् । १४. शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् । १५. अनुवादे त्वपुनरुक्तं शब्दाभ्यासादर्थविशेषोपपत्तेः । १६. अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् । १७. विज्ञातस्य परिषदा त्रिरभिहितस्याप्यनुच्चारणमननुभाषणम् । १८. अविज्ञातञ्चाज्ञानम् । १९. उत्तरस्याप्रतिपत्तिरप्रतिभा । २०. कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः । २१. स्वपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङ्गोमतानुज्ञा । २२. निग्रहस्थानप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् । २३. अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः । २४. सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः । २५. हेत्वाभासाश्च यथोक्ताः । ॥ इति गौतमीयसूत्रपाठे पञ्चमाध्यायस्य, द्वितीयमाह्निकम् पञ्चमोऽध्यायश्च ॥ ॥ समाप्तं च न्यायदर्शनम् ॥ Jain Education International For Personal & Private Use Only २०५ www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy