________________
२०२
विभाग-१, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम्
३२. मायागन्धर्वनगरमृगतृष्णिकावद्वा । ३३. हेत्वभावादसिद्धिः। ३४. स्मृतिसङ्कल्पवच्च स्वप्नविषयाभिमानः । ३५. मिथ्योपलब्धिविनाशस्तत्त्वज्ञानात् स्वप्नविषयाभिमानप्रणाशवत्
प्रतिबोधे। ३६. बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् । ३७. तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेद्वैविध्योपपत्तिः । ३८. समाधिविशेषाभ्यासात्। ३९. नार्थविशेषप्राबल्यात् । ४०. क्षुदादिभिः प्रवर्तनाच्च । ४१. पूर्वकृतफलानुबन्धात् तदुत्पत्तिः । ४२. अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः। ४३. अपवर्गेऽप्येवं प्रसङ्गः। ४४. न निष्पन्नावश्यम्भावित्वात् । ४५. तदभावश्चापवर्गे। ४६. तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः। ४७. ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः। ४८. तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयात् । ४९. प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे । ५०. तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं
कण्टकशाखावरणवत् । ५१. ताभ्यां विगृह्य कथनम् । ॥ इति गौतमीयसूत्रपाठे चतुर्थाध्यायस्य द्वितीयमाह्निकम्, चतुर्थोऽध्यायश्च ॥
अथ पञ्चमोऽध्यायः प्रथममाह्निकम् १. साधर्म्यवैधम्र्योत्कर्षापकर्षवावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोपपत्त्यु
पलब्ब्यनुपलब्धिनित्यानित्यकार्यसमाः । २. साधर्म्यवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ । ३. गोत्वाद् गोसिद्धिवत् तत्सिद्धिः। ४. साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षवर्यावर्ण्यविकल्पसाध्यसमाः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org