________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः न्यायदर्शनम्
२०१
३. तन्निमित्तन्त्ववयव्यभिमानः । ४. विद्याऽविद्याद्वैविध्यात् संशयः । ५. तदसंशयः पूर्वहेतुप्रसिद्धत्वात् । ६. वृत्त्यनुपपत्तेरपि तर्हि न संशयः । ७. कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः । ८. तेषु चावृत्तेरवयव्यभावः । ९. पृथक् चावयवेभ्योऽवृत्तेः । १०. न चावयव्यवयवाः । ११. एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः । १२. अवयवान्तरभावेऽप्यवृत्तेरहेतुः । १३. केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः । १४. स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद् विषयग्रहणस्य तथाभावो
नाविषये प्रवृत्तिः। १५. अवयवावयविप्रसङ्गश्चैवमाप्रलयात् । १६. न प्रलयोऽणुसद्भावात् । १७. परं वा त्रुटेः। १८. आकाशव्यतिभेदात् तदनुपपत्तिः । १९. आकाशासर्वगतत्वं वा । २०. अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः । २१. शब्दसंयोगविभवाच्च सर्वगतम्। २२. अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः । २३. मूर्तिमताञ्च संस्थानोपपत्तेरवयवसद्भावः । २४. संयोगोपपत्तेश्च।। २५. अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः । २६. बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे
पटसद्भावानुपलब्धिवत् तदनुपलब्धिः । २७. व्याहतत्वादहेतुः। २८. तदाश्रयत्वादपृथग्ग्रहणम्। २९. प्रमाणतश्चाऽर्थप्रतिपत्तेः । ३०. प्रमाणानुपपत्त्युपपत्तिभ्याम् । ३१. स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org