________________
२००
विभाग-१, षड्दर्शनसूत्रसंग्रहः न्यायदर्शनम्
४४. सद्यः कालान्तरे च फलनिष्पत्तेः संशयः । ४५. न सद्यः कालान्तरोपभोग्यत्वात् । ४६. कालान्तरेणानिष्पन्तिर्हेतुविनाशात् । ४७. प्राङ् निष्पत्तेर्वृक्षफलवत्तत् स्यात् । ४८. नासन्न सन्न सदसत् सत्सतोर्वैधात् । ४९. उत्पादव्ययदर्शनात् । ५०. बुद्धिसिद्धन्तु तदसत् । ५१. आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवदित्यहेतुः । . ५२. प्रीतेरात्माश्रयत्वादप्रतिषेधः । ५३. न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् । ५४. तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः । ५५. विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः। ५६. न सुखस्यान्तरालनिष्पत्तेः । ५७. बाधनाऽनिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः । ५८. दुःखविकल्पे सुखाभिमानाच्च । ५९. ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः । ६०. प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादी निन्दाप्रशंसोपपत्तेः । ६१. अधिकाराच्च विधानं विद्यान्तरवत् । ६२. समारोपणादात्मन्यप्रतिषेधः । ६३. पात्रचयान्तानुपपत्तेश्च फलाभावः । ६४. सुषुप्तस्य स्वप्नादर्शने क्लेशाभाववदपवर्गः । ६५. न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य । ६६. न क्लेशसन्ततेः स्वाभाविकत्वात् । ६७. प्रागुत्पत्तेरभावनित्यत्ववत् स्वाभाविकेऽप्यनित्यत्वम् । ६८. अणुश्यामताऽनित्यत्ववद्वा । ६९. न सङ्कल्पनिमित्तत्वाच्च रागादीनाम् । ॥ इति गौतमीयसूत्रपाठे चतुर्थाध्यायस्य प्रथममाह्निकम् ॥
द्वितीयमाह्निकम् १. दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः। २. दोषनिमित्तं रूपादयो विषयाः सङ्कल्पकृताः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org