SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम् १३. व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः । १४. अभावाद्भावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात् । १५. व्याघातादप्रयोगः । १६. न अतीतानागतयोः कारकशब्दप्रयोगात् । १७. न विनष्टेभ्योऽनिष्पत्तेः । १८. क्रमनिर्देशादप्रतिषेधः । १९. ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् । २०. न पुरुषकर्माभावे फलानिष्पत्तेः । २१. तत्कारितत्वादहेतुः । २२. अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् । २३. अनिमित्तनिमित्तत्वान्नानिमित्ततः । २४. निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः । २५. सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात् । २६. न अनित्यतानित्यत्वात् । २७. तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् । २८. नित्यस्याप्रत्याख्यानं यथोपलब्धि व्यवस्थानात् । २९. सर्वं नित्यं पञ्चभूतनित्यत्वात् । ३०. न उत्पत्तिविनाशकारणोपलब्धेः । ३१. तल्लक्षणावरोधादप्रतिषेधः । ३२. न उत्पत्तितत्कारणोपलब्धेः । ३३. न व्यवस्थानुपपत्तेः । ३४. सर्वं पृथग्भावलक्षणपृथक्त्वात् । ३५. न अनेकलक्षणैरेकभावनिष्पत्तेः । ३६. लक्षणव्यवस्थानादेवाप्रतिषेधः । ३७. सर्वमभावो भावेष्वितरेतराभावसिद्धेः । ३८. न स्वभावसिद्धेर्भावानाम् । ३९. न स्वभावसिद्धिरापेक्षिकत्वात् । ४०. व्याहतत्वादयुक्तम् । ४१. संख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् । ४२. न कारणावयवभावात् । ४३. निरवयवत्वादहेतुः । For Personal & Private Use Only १९९ www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy