________________
१९८
विभाग- १, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम्
६२. यथोक्तहेतुत्वाच्चाणु । ६३. पूर्वकृतफलानुबन्धात्तदुत्पत्तिः । ६४. भूतेभ्यो मूर्त्यपादानवत् तदुपादानम् ।
६५. न साध्यसमत्वात् ।
६६. न उत्पत्तिनिमित्तत्वान्मातापित्रोः ।
६७. तथाऽऽहारस्य ।
६८. प्राप्तौ चानियमात् ।
६९. शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म । ७०. एतेनानियमः प्रयुक्तः ।
७१. उपपन्नश्च तद्वियोगः कर्मक्षयोपपत्तेः । ७२. तददृष्टकारितमिति चेत् पुनस्तत्प्रसङ्गोऽपवर्गे । ७३. न करणाकरणयोरारम्भदर्शनात् । ७४. मनः कर्मनिमित्तत्वाच्च संयोगानुच्छेदः । ७५. नित्यत्वप्रसङ्गश्च प्रायेणानुपपत्तेः । ७६. अणुश्यामतानित्यत्ववदेतत् स्यात् ।
७७. न अकृताभ्यागमप्रसङ्गात् ।
॥ इति गौतमीयसूत्रपाठे तृतीयाध्यायस्य द्वितीयमाह्निकम्, तृतीयोऽध्यायश्च ॥ अथ चतुर्थोऽध्यायः प्रथममाह्निकम्
१. प्रवृत्तिर्यथोक्ता ।
२. तथा दोषाः ।
३. तत्त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ।
४. न एकप्रत्यनीकभावात् ।
५. व्यभिचारादहेतुः ।
६. तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः । ७. निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः ।
८. न दोषलक्षणावरोधान्मोहस्य ।
९. निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ।
१०. आत्मनित्यत्वे प्रेत्यभावसिद्धिः ।
११. व्यक्ताद्व्यक्तानां प्रत्यक्षप्रामाण्यात् ।
१२. न घटाद् घटानिष्पत्तेः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org