________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम्
१९७
३३. प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावाद्युगपत्स्मरणम्। ३४. प्रातिभवत्तु प्रणिधानाद्यनपेक्षे स्मार्ते यौगपद्यप्रसङ्गः । ३५. ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्योः । ३६. तल्लिङ्गत्वादिच्छाद्वेषयोः पार्थिवाद्येष्वप्रतिषेधः । ३७. परश्वादिष्वारम्भनिवृत्तिदर्शनात् । ३८. कुम्भादिष्वनुपलब्धेरहेतुः । ३९. नियमानियमौ तु तद्विशेषकौ । ४०. यथोक्तहेतुत्वात् पारतन्त्र्यादकृताभ्यागमाच्च न मनसः । ४१. परिशेषाद्यथोक्तहेतूपपत्तेश्च । ४२. स्मरणं त्वात्मनो ज्ञस्वाभाव्यात् । ४३. प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रित
सम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखे
च्छाद्वेषभयाऽर्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः । ४४. कर्मानवस्थायिग्रहणात्। ४५. बुद्ध्यवस्थानात् प्रत्यक्षत्वे स्मृत्यभावः । ४६. अव्यक्तग्रहणमनवस्थायित्वात् विद्युत्सम्पाते रूपाद्यव्यक्तग्रहणवत् । ४७. हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा । ४८. प्रदीपाच्चिः सन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् । ४९. द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः । ५०. यावच्छरीरभावित्वाद्रूपादीनाम् । ५१. न पाकगुणान्तरोत्पत्तेः। ५२. प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः । ५३. शरीरव्यापित्वात् ।। ५४. न केशनखादिष्वनुपलब्धेः । ५५. त्वक्पर्यन्तत्वाच्छरीरस्य केशनखादिष्वप्रसङ्गः । ५६. शरीरगुणवैधात् । ५७. न रूपादीनामितरेतरवैधात् । ५८. एन्द्रियकत्वाद्रूपादीनामप्रतिषेधः । ५९. ज्ञानायौगपद्यादेकं मनः । ६०. न युगपदनेकक्रियोपलब्धेः । ६१. अलातचक्रदर्शनवत्तदुपलब्धिराशुसञ्चारात् ।
Jain Education International
For Personar & Private Use only
www.jainelibrary.org