________________
१९६
विभाग-१, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम्
२. विषयप्रत्यभिज्ञानात् । ३. साध्यसमत्वादहेतुः। ४. न युगपदग्रहणात् । ५. अप्रत्यभिज्ञाने च विनाशप्रसङ्गः । ६. क्रमवृत्तित्वादयुगपद् ग्रहणम्। ७. अप्रत्यभिज्ञानञ्च विषयान्तरव्यासङ्गात् । ८. न गत्यभावात् । ९. स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः। . १०. न हेत्वभावात् । ११. स्फटिकेऽप्यपरापरोत्पत्तेः क्षणिकत्वाव्यक्तीनामहेतुः । १२. नियमहेत्वभावाद् यथादर्शनमभ्यनुज्ञा । १३. नोत्पत्तिविनाशकारणोपलब्धेः । १४. क्षीरविनाशे कारणानुपलब्धिवद्दध्युत्पत्तिवच्च तदुपपत्तिः । । १५. लिङ्गतोग्रहणान्नानुपलब्धिः । १६. न पयसः परिणामगुणान्तरप्रादुर्भावात्।। १७. व्यूहान्तराद् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेरनुमानम् । १८. क्वचिद्विनाशकारणानुपलब्धेः क्वचिच्चोपलब्धेरनेकान्तः । १९. नेन्द्रियार्थयोस्तद्विनाशेऽपि ज्ञानावस्थानात् । २०. तदात्मगुणत्वेऽपि तुल्यम् । २१. इन्द्रियैर्मनसः सन्निकर्षाभावात् तदनुत्पत्तिः । २२. न उत्पत्तिकारणानपदेशात् । २३. विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः । २४. अनित्यत्वग्रहाद् बुद्धेर्बुद्धयन्तराद्विनाशः शब्दवत् । २५. ज्ञानसमवेतात्मप्रदेशसन्निकर्षान्मनसः स्मृत्युत्पत्तेर्न युगपदुत्पत्तिः । २६. न अन्तः शरीरवृत्तित्वान्मनसः । २७. साध्यत्वादहेतुः। २८. स्मरतः शरीरधारणोपपत्तेरप्रतिषेधः । २९. न तदाशुगतित्वान्मनसः। ३०. न स्मरणकालानियमात् । ३१. आत्मप्रेरणयदृच्छाज्ञताभिश्च न संयोगविशेषः । ३२. व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम्।
For Personal & Private Use Only
www.jainelibrary.org