________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम् ।
२०३
५. किञ्चित्साधादुपसंहारसिद्धेवैधादिप्रतिषेधः। ६. साध्यातिदेशाच्च दृष्टान्तोपपत्तेः। ७. प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या अविशिष्टत्वादप्राप्त्याअसाधक
त्वाच्च प्राप्त्यप्राप्तिसमौ। ८. घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः । ९. दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रति
दृष्टान्तसमौ। १०. प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः । ११. प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः । १२. प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः । १३. तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः । १४. सामान्यदृष्टान्त-योरैन्द्रियकत्वे समाने नित्यानित्यसाधात् संशयसमः। १५. साधर्म्यात् संशये न संशयो वैधादुभयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो
नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः । १६. उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः। १७. प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः । १८. त्रैकाल्यासिद्धेर्हेतोरहेतुसमः। १९. न हेतुतः साध्यसिद्धेस्त्रैकाल्यासिद्धिः। २०. प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः । २१. अर्थापत्तितः प्रतिपक्षसिद्धरापत्तिसमः। २२. अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनै कान्तिकत्वा
च्चार्थापत्तेः। २३. एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशेषसमः। २४. क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः । २५. उभयकारणोपपत्तेरुपपत्तिसमः । २६. उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः । २७. निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः । २८. कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः । २९. तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः । ३०. अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः । ३१. ज्ञानविकल्पानाञ्च भावाभावसंवेदनादध्यात्मम् ।
Jain Education International
www.jainelibrary.org