SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ विभाग-१, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम् ६५. सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यो ब्राह्मणमञ्चकट राजशक्तु चन्दनगङ्गाशाटकान्नपुरुषेष्वतद्भावेऽपि तदुपचारः । ६६. आकृतिस्तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः । ६७. व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्रवके जातिः । ६८. नाकृतिव्यक्त्यपेक्षत्वाज्जात्यभिव्यक्तेः । ६९. व्यक्त्याकृतिजातयस्तु पदार्थः । ७०. व्यक्तिर्गुणविशेषाश्रयो मूर्तिः । ७१. आकृतिर्जातिलिङ्गाख्या । ७२. समानप्रसवात्मिका जातिः । ॥ इति गौतमीयसूत्रपाठे द्वितीयाध्याये द्वितीयमाह्निकम् द्वितीयोऽध्यायश्च ॥ अथ तृतीयोऽध्यायः प्रथममाह्निकम् १. दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् । २. न विषयव्यवस्थानात् । ३. तद्व्यवस्थानादेवात्मसद्भावादप्रतिषेधः । ४. शरीरदाहे पातकाभावात् । ५. तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात् । ६. न कार्याश्रयकर्तृवधात् । ७. सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् । ८. नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् । ९. एकविनाशे द्वितीयाविनाशान्नैकत्वम् । १०. अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः । ११. दृष्टान्तविरोधादप्रतिषेधः । १२. इन्द्रियान्तरविकारात् । १३. न स्मृतेः स्मर्त्तव्यविषयत्वात् । १४. तदात्मगुणसद्भावादप्रतिषेधः । १५. अपरिसङ्ख्यानाच्च स्मृतिविषयस्य । १६. न आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात् । १७. ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् । १८. नियमश्च निरनुमानः । Jain Education International १९३ For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy