SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १९२ ३५. अश्नवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः । ३६. उपलभ्यमाने चानुपलब्धेरसत्त्वादनपदेशः । ३७. पाणिनिमित्तप्रश्लेषाच्छ्ब्दाभावे नानुपलब्धिः । ३८. विनाशकारणानुपलब्धेश्चावस्थाने तन्नित्यत्वप्रसङ्गः । ३९. अस्पर्शत्वादप्रतिषेधः । ४०. विभक्त्यन्तरोपपत्तेश्च समासे । विभाग- १, षड्दर्शनसूत्रसंग्रहः - न्यायदर्शनम् ४१. विकारादेशोपदेशात् संशयः । ४२. प्रकृतिविवृद्धौ विकारविवृद्धेः । ४३. न्यूनसमाधिकोपलब्धेर्विकाराणामहेतुः ४४. द्विविधस्यापि हेतोरभावादसाधनं दृष्टान्तः । ४५. न अतुल्यप्रकृतीनां विकारविकल्पात् । ४६. द्रव्यविकारे वैषम्यवद्वर्णविकारविकल्पः । ४७. न विकारधर्मानुपपत्तेः । ४८. विकारप्राप्तानामपुनरापत्तेः । ४९. सुवर्णादीनां पुनरापत्तेरहेतुः । ५०. न तद्विकाराणां सुवर्णभावाव्यतिरेकात् । ५१. वर्णत्वाव्यतिरेकाद्वर्णविकाराणामप्रतिषेधः । ५२. सामान्यवतो धर्मयोगो न सामान्यस्य । ५३. नित्यानामतीन्द्रियत्वात्तद्धर्मविकल्पाच्च वर्णविकाराणामप्रतिषेधः । ५४. नित्यत्वेऽविकारादनित्यत्वे चानवस्थानात् । ५५. अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः । ५६. विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेश्चाप्रतिषेधः । ५७. प्रकृत्यनियमाद्वर्णविकाराणाम् । ५८. अनियमे नियमान्नानियमः । ५९. नियमानियमविरोधादनियमे नियमाच्चाप्रतिषेधः । ६०. गुणान्तरापत्त्युपमद्देहासवृद्धिलेश श्लेषेभ्यस्तु विकारोपपत्तेर्वर्णविकारः । ६१. ते विभक्त्यन्ताः पदम् । ६२. तदर्थे व्यक्त्याकृतिजातिसन्निधावुपचारात् संशयः । ६३. याशब्दसमूहत्यागपरिग्रहसंख्यावृद्ध्युपचयवर्णसमासानुबन्धानां व्यक्तावुपचाराद्व्यक्तिः । । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004048
Book TitleShaddarshan Sutra Sangraha evam Shaddarshan Vishayak Krutaya
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2010
Total Pages534
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy